'एक पेड़ मां के नाम’ आन संडे इत्यस्य अभियानस्य अन्तर्गते लक्ष्मीबाई नगरे कृतं वृक्षारोपणम्
नवदिल्ली, 05 अप्रैलमासः (हि.स.)। ‘ ‘एकः वृक्षः मातुः नाम्नि’ इति रविवासर-अभियानस्य अन्तर्गतं जनभागीदारीवृद्धये नव दिल्ली नगरपालिका परिषदः उपाध्यक्षः कुलजीत सिंह चहल अद्य नई दिल्ली स्थिते तिकोणापार्क इत्यत्र लक्ष्मीबाईनगरमार्केटक्षेत्रे (केन्द्रीयश
नई दिल्ली स्थित लक्ष्मीबाई नगर में 'एक पेड़ मां के नाम’ आन संडे अभियान के तहत लक्ष्मीबाई वृक्षारोपण का नेतृत्व करते नई दिल्ली पालिका परिषद उपाध्यक्ष कुलदीप सिंह चहल


नवदिल्ली, 05 अप्रैलमासः (हि.स.)। ‘

‘एकः वृक्षः मातुः नाम्नि’ इति रविवासर-अभियानस्य अन्तर्गतं जनभागीदारीवृद्धये नव दिल्ली नगरपालिका परिषदः उपाध्यक्षः कुलजीत सिंह चहल अद्य नई दिल्ली स्थिते तिकोणापार्क इत्यत्र लक्ष्मीबाईनगरमार्केटक्षेत्रे (केन्द्रीयशासकीयअधिकारीणां आरडब्ल्यूए प्रकार-३ तथा ४, लक्ष्मीबाईनगर) वृक्षारोपणकार्यक्रमस्य नेतृत्वं कृतवान्।

चहलेन स्थानीयनिवासिभिः सह वृक्षारोपणं कृत्वा उक्तं यत् “एकः वृक्षः मातुः नाम्नि” इत्ययं अभियानः प्रधानमन्त्रिणः प्रेरणया आरब्धः भावनात्मकः सामाजिकः च जन-अभियानः अस्ति, यस्य माध्यमेन जनाः स्वमातुः सम्मानार्थं एकं वृक्षं रोपयितुं पर्यावरणसंरक्षणे योगदानं दातुं च प्रेर्यन्ते।

सः अवदत् यत् एतत् अभियानं केवलं वृक्षारोपणपर्यन्तं सीमितः नास्ति, अपि तु प्रकृतेः प्रति सम्मानस्य सामाजिकदायित्वस्य च भावनां वर्धयन् आगामिनां पीढीनां कृते स्वच्छं हरितं च वातावरणं सुनिश्चितं कर्तुं संकल्पः अपि अस्ति।

चहलेन उक्तं यत् पालिकया वर्षपर्यन्तं “ग्रीन कैलेंडर” नाम योजना निर्मिता, यस्य अन्तर्गतं प्रत्येकरविवासरे क्षेत्रस्य विभिन्नेषु स्थलेषु वृक्षारोपण-अभियानं सञ्चालयिष्यते।

सः अवदत् यत् एनडीएमसी संस्थायाः हरितप्रयत्नाः नागरिकसेवासम्बद्धाः क्रियाकलापाः च प्रधानमन्त्रिणः “विकसितभारत@२०४७” इति दृष्टेः अनुरूपाः सन्ति, यत्र स्वच्छवायुः स्वस्थपर्यावरणं सतत-नगरविकासः च विशेषमहत्त्वं धारयन्ति। एतेषां अभियानानां माध्यमेन एनडीएमसी केवलं हरितक्षेत्रवृद्धिं न करोति, अपि तु नागरिकेषु पर्यावरणसंरक्षणस्य सामूहिकदायित्वस्य च भावनां अपि सुदृढां करोति।

---------------

हिन्दुस्थान समाचार