अमेरिकाचीनदेशौ स्वान् 'जागीरदार'इत्येतं न कुरुतां विश्वस्य देशान् : इमैनुएल मैक्रों
पेरिस/सियोलम्, 05 अप्रैलमासः (हि.स.)। इमैनुएल मैक्रों इत्येषः फ्रान्सदेशस्य राष्ट्रपतिः वैश्विकमञ्चे महत्त्वपूर्णं सन्देशं दत्त्वा समानविचारधारायुक्तदेशान् प्रति “स्वतन्त्रतागठबंधन” निर्माणस्य आह्वानं कृतवान्। डोनाल्ड ट्रंप इत्यनेन सह हालियसार्वज
फ्रांसीसी राष्ट्रपति इमैनुएल मैक्रों (फाइल फाेटाे)


पेरिस/सियोलम्, 05 अप्रैलमासः (हि.स.)।

इमैनुएल मैक्रों इत्येषः फ्रान्सदेशस्य राष्ट्रपतिः वैश्विकमञ्चे महत्त्वपूर्णं सन्देशं दत्त्वा समानविचारधारायुक्तदेशान् प्रति “स्वतन्त्रतागठबंधन” निर्माणस्य आह्वानं कृतवान्। डोनाल्ड ट्रंप इत्यनेन सह हालियसार्वजनिकविरोधानन्तरं मैक्रों उक्तवान् यत् अमेरिकादेशस्य “अनिश्चितता” तथा चीन देशस्य वर्धमानप्रभावस्य मध्ये देशाः कस्यचित् एकस्य शक्तेः “जागीरदाराः” न भवेयुः। सियोल नगरे दत्ते भाषणे तेन अन्तरराष्ट्रीयनियमाः, लोकतन्त्रम्, जलवायुपरिवर्तनम् इत्यादिषु साझा मूल्यानां आधारेण नूतनवैश्विकव्यवस्थायाः निर्माणस्य आह्वानं कृतम्, यत् वर्तमानभूराजनैतिकअस्थिरतायां महत्त्वपूर्णसंकेतः इति मन्यते।

रूस टुडे इत्यस्य प्रतिवेदनानुसारं पश्चिमएशियायां प्रचलितयुद्धं तथा नाटो विषये ट्रंपेन सह विवादानन्तरं मैक्रों पुनः जगतः देशान् आह्वयत् यत् ते अमेरिकादेशस्य वा चीनदेशस्य “जागीरदाराः” न भवेयुः।

शुक्रवासरे सियोलभ्रमणकाले फ्रान्सराष्ट्रपतिः दक्षिणकोरिया, जापान, ब्राजील, भारत, ऑस्ट्रेलिया, कनाडा च सहितान् देशान् प्रति अन्तरराष्ट्रीयनियम-लोकतन्त्र-जलवायुपरिवर्तनादिषु साझा प्रतिबद्धतायाः आधारेण “स्वतन्त्रतागठबंधन” स्थापयितुं आग्रहं कृतवान्।

योनसेई विश्वविद्यालय इत्यत्र दत्ते भाषणे मैक्रों उक्तवान्—दीर्घकालपर्यन्तं अस्माकं समीपे तथाकथिता स्थिरता आसीत्, या अन्तरराष्ट्रीयव्यवस्थायाः केषाञ्चित् निश्चितानां तत्त्वानां च आधारेण आसीत्। अधुना तस्यां चलनं दृश्यते। अस्यां नूतनअव्यवस्थायां वयं केवलं मौनदर्शकाः न भवेम, अपि तु नूतनव्यवस्थां निर्मातुम् आवश्यकम्।

सः अपि अवदत्—अस्माकं लक्ष्यं द्वयोः वर्चस्वशक्त्योः जागीरदाराः भवितुं नास्ति। वयं चीनदेशस्य प्रभुत्वे निर्भराः न भवितुम् इच्छामः, न च अमेरिकादेशस्य अनिश्चिततायाः प्रति अतीव संवेदनशीलाः भवितुम्।

मैक्रों पश्चिमएशियायां ईरान विरुद्धं अमेरिका-इजरायलयुद्धस्य समर्थनं न कृतवान्। सः ट्रंपस्य आलोचनां कृतवान्, येन नाटो-संघस्य उपहासः “कागजीशेरः” इति उक्त्वा कृतः आसीत्।

पश्चिमएशियायां अमेरिकादेशस्य पूर्ववर्तमानहस्तक्षेपान् निर्दिश्य मैक्रों उक्तवान्—केवलं बमप्रहारैः सैन्यकार्यवाहिभिः वा एषा स्थिति न सुधरिष्यति।

आरटी इत्यस्य समाचारानुसारं संयुक्त राष्ट्र सुरक्षा परिषद इत्यस्य प्रस्तावं, यः होर्मुजसङ्कटे ईरानविरुद्धं सैन्यकार्यार्थं अनुमतिं दद्यात्, फ्रान्सेन रूस-चीनदेशाभ्यां सह मिलित्वा विरोधितम्। अस्य प्रस्तावस्य मतदानं स्थगितम् अभवत्।

फ्रान्सराष्ट्रपतिः मैक्रों गतवर्षेषु फ्रान्सदेशस्य रक्षा-व्ययस्य उल्लेखनीयवृद्धिं कृतवान्, यत्र क्षेपणास्त्र-ड्रोन-पनडुब्बीक्षमतासु विशेषः ध्यानः दत्तः। गतमासे सः उक्तवान् यत् फ्रान्सदेशः जर्मनी तथा अन्ययूरोपीयदेशानां सुरक्षार्थं स्वस्य परमाणुसुरक्षाछत्रस्य विस्तारं कर्तुं शक्नोति।

---------------

हिन्दुस्थान समाचार