Enter your Email Address to subscribe to our newsletters

हैदराबादनगरम्, ०५ अप्रैलमासः (हि.स.)।इण्डियन-प्रीमियर-लीग् २०२६ इत्यस्य दशम-स्पर्धायां लखनऊ-सुपर-जायन्ट्स-दलेन सनराइजर्स-हैदराबाद-दलं पञ्च-विकेटैः पराजित्य प्रतियोगितायां स्वस्य प्रथमः विजयः प्राप्तः।
राजीव-गान्धी-अन्ताराष्ट्रिय-क्रीडाङ्गणे आयोजितायाम् अस्यां स्पर्धायां प्रथमं बल्लेबाजीति कृत्वा हैदराबाद-दलेन २० ओवर-पर्यन्तं ९ विकेट्-क्षयेण १५६ धवनानि कृतानि। प्रत्युत्तरे लखनऊ-दलेन नायकस्य ऋषभ-पन्तस्य नाबाद-६८ धावनैः साहाय्येन १९.५ ओवर-मध्ये ५ विकेट्-क्षयेण १६० धावनानि कृत्वा विजयः प्राप्तः।
१५७ रन-लक्ष्यस्य अनुगमने मिचेल-मार्शः तथा एडेन-मार्करम् इत्येताभ्यां शीघ्रारम्भः दत्तः। मार्शः १४ धावनानि कृत्वा निर्गतः, मार्करम् तु २७ कन्दुकानि खेलित्वा ६ चतुष्टकम् २ षट्क-सहितं ४५ धावनानि कृतवान्।
मध्यक्रमे आयुष-बदोनी (१२), निकोलस-पूरन (१) तथा अब्दुल-समदः (१६) शीघ्रं निष्क्रान्ताः, किन्तु पन्तः अन्तपर्यन्तं स्थित्वा ५० कन्दुकानि खेलित्वा ९ चतुष्क-सहितं नाबाद-६८ धावनानि कृत्वा दलं विजयम् अनयत्।
हैदराबाद-दलतः हर्ष-दुबे द्वौ विकेटौ अलभत, ईशान-मलिंगा तथा शिवाङ्ग-कुमारः एकैकं विकेटम् अलभेताम्।
पूर्वं सनराइजर्स-दलस्य आरम्भः दुर्बलः आसीत्, किन्तु हेनरिच-क्लासेन तथा नीतीश-रेड्डी पञ्चम-विकेट-इत्यस्य कृते ११६ धावनानां महत्त्वपूर्ण-सहभागितां कृतवन्तौ। क्लासेन ४१ कन्दुकानि खेलित्वा ६२ धावनानि, नीतीश-रेड्डी ३३ कन्दुकानि खेलित्वा ५६ धावनानि कृतवान्।
लखनऊ-दलतः मोहम्मद-शमी, प्रिन्स-यादवः तथा आवेश-खान द्वौ-द्वौ विकेटौ अलभन्त, दिग्वेश-राठी तथा मणिरमन-सिद्धार्थः एकैकां सफलतां प्राप्तवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता