Enter your Email Address to subscribe to our newsletters


- केंद्रीय मंत्री सिंधिया हितग्राही सम्मेलने अशोकनगराय अददात् त्रिकोटितः अधिकानामुपहारः
अशोक नगरम्, 05 अप्रैलमासः (हि.स.)।केन्द्रीयसञ्चारपूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिन्धिया उक्तवान् यत् शासनस्य लक्ष्यं केवलं योजनानिर्माणं न, अपितु ताः अन्तिमपुरुषपर्यन्तं प्रापयितुम् अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मार्गदर्शने च सेवा, सुशासनं, गरीबकल्याणं च सर्वोच्चप्राथमिकतया स्वीकृतम् अस्ति।
केन्द्रीयमन्त्री सिन्धिया रविवासरे मध्यप्रदेशस्य अशोकनगरस्थे विशालहितग्राहीसम्मेलने सम्बोधनं कृतवान्। अस्मिन् अवसरॆ सः सहस्रशः हितग्राहिभिः सह संवादं कृत्वा तेषां विविधजनकल्याणकारीयोजनानां लाभं प्रदत्तवान्। कार्यक्रमे बहुसंख्यया मातृशक्तिः युवानः ग्रामीणजनाः च उपस्थिताः आसन्, येन एषः आयोजनः जनविश्वासस्य सहभागितायाश्च प्रतीकः अभवत्। अस्मिन् काले सः त्रिकोट्यधिकमूल्यपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्।
आवासजीविकासम्मानानां सुदृढाधारम् उद्घोषयन् मन्त्री उक्तवान् यत् वर्षे २०२५ अशोकनगरजनपदपञ्चायतेः अन्तर्गतं ७३१७ प्रधानमन्त्र्यावासाः अनुमोदिताः, तेषु ४१३९ आवासाः पूर्णतां गताः, अवशिष्टाः निर्माणाधीनाः सन्ति। मार्चमासे २०२६ वर्षे ५५३४ नूतनाः आवासाः अनुमोदिताः, तेषु १७३३ हितग्राहिभ्यः प्रथमराशिः प्रदत्ता। अस्मिन् अवसरे दीनदयालअन्त्योदययोजना–राष्ट्रियग्रामीणआजीविकामिशन अन्तर्गतं अष्ट स्वसहायतासमूहान् प्रति २७ लक्षरूप्यकाणां सीसीएलराशिः वितरिता, येन ग्रामीणमहिलानां आर्थिकसशक्तीकरणं प्रोत्साहितम्।
दिव्याङ्गजनसशक्तीकरणं जनसेवायाः प्रतिबद्धता च अपि विशेषतया प्रतिपादिता। अशोकनगरजिलायां १४५६ दिव्याङ्गजनाः ५१७२ सहायकउपकरणानि प्राप्तवन्तः। सम्पूर्णसंसदीयक्षेत्रे एषा संख्या ८६४० लाभार्थिनः यावत् अभवत्, येभ्यः प्रायः ७ कोटिरूप्यकमूल्यानि उपकरणानि वितरितानि। एषा पहल केवलं सहायता न, अपितु आत्मसम्मानस्य आत्मनिर्भरत्वस्य च महत्वपूर्णं पादम् अस्ति।
“स्वास्थ्यसेवायां शिवपुरी इतिहासं लिखितवती” इति उक्त्वा मन्त्री ‘श्रीमन्तमाधवरावसिन्धियास्वास्थ्यसेवामिशन’ अन्तर्गतं आयोजितस्य स्वास्थ्यशिविरस्य उल्लेखं कृतवान्। अस्मिन् अभियाने २.८२ लक्षाधिकाः ओपीडीपरामर्शाः ३६०० अधिकाः निःशुल्कशल्यचिकित्साः सफलतया सम्पन्नाः। आधुनिकतन्त्रज्ञानस्य विशेषतः रोबोटिकशल्यचिकित्सायाः उपयोगेन एषः शिविरः ऐतिहासिकसिद्धिः अभवत् तथा “इण्डियाबुकऑफरिकॉर्ड्स” मध्ये अपि अंकितः जातः। एषा पहल ग्रामीणस्वास्थ्यसेवाक्षेत्रे नूतनमानकं स्थापितवती।
अशोकनगराय विकासकार्याणां नूतना गतिः प्राप्ता। मन्त्री उक्तवान् यत् अस्मिन् अवसरॆ प्रायः ७० लक्षरूप्यकमूल्येन षट् विकासकार्याणां भूमिपूजनं कृतम्, तथा २ कोटि ५५ लक्षरूप्यकमूल्येन एकोनविंशतिः कार्याणां लोकार्पणं सम्पन्नम्। एते कार्याणि क्षेत्रस्य आधारभूतसंरचनां सुदृढीकर्तुं नागरिकेभ्यः उत्तमसुविधाः प्रदातुं च सहायकानि भविष्यन्ति। अन्ते सः सर्वान् नागरिकान् विकासयात्रायां सहभागिनः भवितुम् आह्वयत् तथा अशोकनगरं आत्मनिर्भरसमृद्धं कर्तुं संकल्पं पुनरुक्तवान्।
प्रधानमन्त्र्यावासयोजनायाः लाभार्थिनां कृते गृहप्रवेशस्वीकृतिपत्रवितरणकार्यक्रमे अपि मन्त्री सिन्धिया मुख्यातिथिरूपेण उपस्थितः आसीत्। ईसागढस्थिते शासकीयउत्कृष्टउच्चतरमाध्यमिकविद्यालयस्य क्रीडाङ्गणे आयोजिते कार्यक्रमे सः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सर्वेभ्यः आवासं सुनिश्चितं कर्तुं ग्रामीणनगरीयक्षेत्रयोः पक्कगृहाणि प्रदीयन्ते, येन जनानां स्वप्नसाकारः भवेत्।
सः अपि अवदत् यत् केन्द्रीयसर्वकारेण आगामिपञ्चवर्षेषु ५ कोटि प्रधानमन्त्र्यावासानां प्रदाने लक्ष्यं निर्धारितम्। अस्मिन् कार्यक्रमे नगरपरिषद् ईसागढस्य ९४ नूतनहितग्राहिभ्यः स्वीकृतिपत्राणि वितरितानि। तत्र मन्त्री सिन्धिया प्रधानमन्त्र्यावासयोजना (शहरी) अन्तर्गतं हितग्राहिणे कमलेशाय आवासस्य कुञ्जिका प्रदत्ता
---------------
हिन्दुस्थान समाचार