राष्ट्रपतिना उपराष्ट्रपतिना लोकसभा-अध्यक्षेण च ईस्टर-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः
नवदिल्ली, ०५ अप्रैलमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी.पी.राधाकृष्णन् तथा लोकसभा-अध्यक्षः ओम-बिरला रविवासरे ईस्टर-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः अयच्छन्। राष्ट्रपतिना एक्स-माध्यमे उक्तम्— “यूयं सर्वेभ्यः ईस्टर-पर्वणः हार
प्रतीकात्मक चित्र


नवदिल्ली, ०५ अप्रैलमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी.पी.राधाकृष्णन् तथा लोकसभा-अध्यक्षः ओम-बिरला रविवासरे ईस्टर-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः अयच्छन्।

राष्ट्रपतिना एक्स-माध्यमे उक्तम्— “यूयं सर्वेभ्यः ईस्टर-पर्वणः हार्दिकाः शुभकामनाः! प्रभोः यीशु-मसीहस्य पुनरुत्थानस्य अयं पवित्रः अवसरः अस्मान् सत्य-प्रेम-करुणा-त्याग-क्षमा-मूल्यानि स्वीकर्तुं प्रेरयति। अस्मिन् दिने वयं सद्भावं शान्तिं भ्रातृत्वं च प्रवर्धयितुं तथा उत्तमतर-भविष्याय मिलित्वा प्रयत्नं कर्तुं संकल्पं कुर्मः।”

उपराष्ट्रपतिना उक्तं यत् यीशु-मसीहस्य जीवनं तस्य शिक्षाश्च प्रेम-त्याग-क्षमा-सेवा-इत्यादीनि शाश्वत-मूल्यानि दर्शयन्ति। अयं पवित्रः अवसरः अस्माकं आशां नूतनां करोतु।

ओम-बिरला उक्तवान् यत् ईश्वरस्य कृपया अयं सुन्दरः दिवसः भवतः जीवनं नूतनारम्भं आनयतु। भवतः विश्वासं सुदृढं करोतु तथा भवन्तं सुख-शान्ति-अनगणित-आशीर्वादैः पूरयतु।

मल्लिकार्जुन खरगे उक्तवान् यत् ईस्टर-पर्वणः एषा तिथिः करुणां प्रेरयतु, भ्रातृत्व-बन्धनं सुदृढं करोतु तथा उज्ज्वल-आशापूर्ण-भविष्यस्य मार्गं प्रशस्तं करोतु।लोकसभायाः नेता-प्रतिपक्षः राहुल गांधी उक्तवान् यत् अयं विशेषः अवसरः भवतः जीवनं हर्ष-सद्भाव-समृद्धिभिः पूरयतु।

हिन्दुस्थान समाचार / अंशु गुप्ता