Enter your Email Address to subscribe to our newsletters

सदिया (असमः), 05 अप्रैलमासः (हि.स.)।
भाजपा प्रत्याशी बोलिन चेतिया असम जातीय परिषद (एजेपी) प्रत्याशिनः प्रति कटाक्षं कृत्वा उक्तवान् यत् क्षेत्रे व्यापकसडकनिर्माणस्य सेतुनिर्माणस्य च कारणेन अधुना सदिया प्रदेशे नौकासेवायाः कापि आवश्यकता न अवशिष्टा अस्ति।
गतायां रात्रौ आयोजिते कार्यक्रमे सहभागित्वानन्तरं माध्यमैः सह संवादे चेतिया उक्तवान् यत् सदिया विधानसभा क्षेत्रस्य चतुर्दिक्षु दृढमार्गाः स्थायिसेतवः च निर्मिताः सन्ति, येन जनानां गमनागमनं पूर्णतया सुकरं जातम्।
तेन उक्तं “अधुना सदियावासिनां कृते नौकायां आरोहणस्य प्रश्नः अपि न उदेति।”
एजेपी प्रत्याशिनः प्रति प्रहारं कुर्वन् चेतिया अवदत् यत् विकासकार्याणां कारणेन एते विषयाः अधुना अप्रासंगिकाः जाताः सन्ति तथा क्षेत्रे सम्पर्कव्यवस्थायां व्यापकसुधारः अभवत्।
हिन्दुस्थान समाचार