Enter your Email Address to subscribe to our newsletters

राँची-नगरम्, ०५ अप्रैलमासः (हि.स.)।झारखण्डस्य राँची-नगरे आयोजितायां १६वीं हॉकी-इण्डिया सब-जूनियर-महिला-राष्ट्रीय-चैम्पियनशिप्-इत्यस्य पञ्चमे दिने रविवासरे उत्तरप्रदेशः, मध्यप्रदेशः, उत्तराखण्डः, असमः, पञ्जाबः तथा महाराष्ट्रम् स्वस्व-स्पर्धासु विजयम् अभिलेखितवन्तः।
दिवसस्य आरम्भे पूल-डी (डिवीजन-ए) इत्यस्य स्पर्धायां उत्तरप्रदेश-हॉकी-दलेन छत्तीसगढ़-हॉकी-दलं ५–१ इति अङ्कैः पराजितम्। नायिका एरिका (७, ५७ निमेषाः) तथा राशि-सिंह (३५, ४९ निमेषाः) गोल-द्वयं कृतवत्यौ। ममता-कुमारी (३५ निमेषाः) गोल-एकं कृतवती। छत्तीसगढ़-दलतः रिया-खलखो (५० निमेषाः) गोल-एकमेव कृतवती।
पूल-सी (डिवीजन-ए) स्पर्धायां हॉकी-मध्यप्रदेश-दलेन मणिपुर-हॉकी-दलं ६–३ इति अङ्कैः पराजितम्। नाज-नौशीन (१२, ३३, ६० निमेषाः) हैट्ट्रिक-इति कृतवती, भाविका (१५, २२ निमेषाः) गोल-द्वयं कृतवती। यादव-जागृतिः (५६ निमेषाः) अपि गोल-एकं कृतवती। मणिपुर-दलतः सेराम-मेनथोई-चानू (२३.३८ निमेषाः) गोल-द्वयं, चानू-खारिबम-शखेनबी (४० निमेषाः) गोल-तृतीयं कृतवती।
डिवीजन-बी, पूल-बी-स्पर्धायां हॉकी-उत्तराखण्ड-दलेन हॉकी-गुजरात-दलं ९–२ इति अङ्कैः पराजितम्। मीनाक्षी (५, २०, ३४, ३७, ४७ निमेषाः) पञ्च गोलान् कृत्वा उत्कृष्टं प्रदर्शनं कृतवती, करीना (५, ४१ निमेषाः) गोल-द्वयं कृतवती। देवयानी (२२ निमेषाः) तथा रिया (५४ निमेषाः) अपि गोल-द्वयं कृतवत्यौ। गुजरात-दलतः परमार (२९ निमेषाः) तथा कृष्णा-घीवाला (५५ निमेषाः) गोल-द्वयं कृतवत्यौ।
पूल-ए (डिवीजन-बी)-स्पर्धायाम् असम-हॉकी-दलेन हॉकी-बङ्गाल-दलं ३–२ इति अङ्कैः पराजितम्। एक्का-ज्योश्ना (२२, ५३ निमेषाः) गोल-द्वयं कृतवती, तनु-यादव (२९ निमेषाः) गोल-एकं कृतवती। बङ्गाल-दलतः खातून-कुओशीष (९, १२ निमेषाः) गोल-द्वयं कृतवती।
डिवीजन-ए, पूल-बी-स्पर्धायां हॉकी-पञ्जाब-दलेन हॉकी-आन्ध्रप्रदेश-दलं २–० इति अङ्कैः पराजितम्। रश्मीन-कौरः (३७ निमेषाः) तथा जरमनप्रीत-कौर (५६ निमेषाः) गोल-द्वयं कृतवत्यौ।
दिवसस्य अन्तिमे डिवीजन-ए-स्पर्धायां हॉकी-महाराष्ट्र-दलेन हॉकी-बिहार-दलं ३–० इति अङ्कैः पराजितम्। पूर्वा-दुपारे (८ मिनिट्) प्रथमं गोल कृतवती, अवनी-रावतः (४९, ५९ निमेषाः) गोल-द्वयं कृत्वा विजयम् सुनिश्चितवती।
हिन्दुस्थान समाचार / अंशु गुप्ता