डॉ.जितेन्द्र-सिंहः ‘मिशन-कर्मयोगी’-अन्तर्गतं वैज्ञानिक-शिक्षाविदां कृते प्रशासनिक-क्षमता-निर्माण-कार्यक्रमम् आरब्धवान्, ‘उन्नति’-पटलम् उद्घाटितम्
नवदिली, ०५ अप्रैलमासः (हि.स.)।केन्द्रीयमन्त्री डॉ.जितेन्द्र-सिंहः ‘मिशन-कर्मयोगी’-अन्तर्गतं वैज्ञानिकानां शिक्षाविदां च कृते प्रशासनिक-क्षमता-निर्माण-आधारितं प्रथमं विशेष-कार्यक्रमम् आरब्धवान्। अस्य उद्देश्यम् अकादमिक-वैज्ञानिक-नेतृत्वं प्रशासनिक-क
विज्ञान भवन में ‘साधना सप्ताह’ कार्यक्रम के दौरान प्रशासनिक क्षमता निर्माण कार्यक्रम और ‘उन्नति’ पोर्टल का शुभारंभ करते केंद्रीय मंत्री डॉ. जितेंद्र सिंह।


नवदिली, ०५ अप्रैलमासः (हि.स.)।केन्द्रीयमन्त्री डॉ.जितेन्द्र-सिंहः ‘मिशन-कर्मयोगी’-अन्तर्गतं वैज्ञानिकानां शिक्षाविदां च कृते प्रशासनिक-क्षमता-निर्माण-आधारितं प्रथमं विशेष-कार्यक्रमम् आरब्धवान्। अस्य उद्देश्यम् अकादमिक-वैज्ञानिक-नेतृत्वं प्रशासनिक-कौशलैः निर्णय-क्षमतया च सुसज्जितं कर्तुम् इति सः अवदत्।

कार्मिक-लोक-सूचना-पेन्शन-मन्त्रालयेन उक्तं यत् विज्ञान-भवने ‘साधना-सप्ताह’-विशेष-सत्रे अस्य प्रयत्नस्य आरम्भः कृतः। वैज्ञानिक-शिक्षाविदां कृते संरचित-प्रशासनिक-प्रशिक्षणस्य अभावः आसीत्, एषः कार्यक्रमः तत् न्यूनतां पूरयिष्यति इति अपि सः अवदत्। कार्यक्रमः कालानुसारं विकसितः भविष्यति, कृत्रिम-बुद्धिमत्ता-प्रभृतयः नूतन-प्रौद्योगिक्यः अपि अस्मिन् समावेश्यन्ते इति उक्तम्। मानवीय-निर्णय-क्षमतायाः महत्त्वं अपि प्रतिपादितम्।

सः शासन-प्रणालीं नियम-आधारितात् भूमिका-आधारितां कर्तुम् आवश्यकतां निर्दिष्टवान् तथा लघु-प्रशिक्षण-मॉड्यूल-निर्माणे बलम् अयच्छत्। कार्यक्रमे ‘उन्नति’-पटलस्य नूतन-संस्करणं तथा ‘कर्मयोगी-कर्तव्य-कार्यक्रमस्य’ रूपरेखा अपि प्रकाशिता। क्षमता-निर्माण-आयोगस्य आरआईएस-संस्थया सह सन्धि-ज्ञापनम् अपि हस्ताक्षरितम्। अस्मिन् अवसरे एसराधा-चौहान-सहिताः वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।

क्षमता-निर्माणस्य उद्देश्यं प्रशासनिक-कार्यकुशलतां सेवा-वितरणं च उन्नयितुम् इति डॉ.जितेन्द्र-सिंहः अवदत्।

हिन्दुस्थान समाचार / अंशु गुप्ता