Enter your Email Address to subscribe to our newsletters

बरेलीनगरम्, ५ अप्रैलमासः (हि.स.)। शंकराचार्यस्य अविमुक्तेश्वरानन्द-सरस्वतेः अन्येन वक्तव्येन राजनैतिक-धार्मिक-वातावरणं पुनः उष्णं जातम्। तेन उत्तरप्रदेश-सर्वकारः गोहत्या-निरोधे विफलः इति आरोपः कृतः तथा उक्तं यत् प्रदेशे गोहत्या-प्रकरणानि न्यूनीकर्तुं स्थाने वर्धन्ते। तेन १ मईमासतः राज्यस्य प्रत्येक-विधानसभा-क्षेत्रस्य प्रवासं कर्तुं घोषणां कृतवान्।
शंकराचार्यः अविमुक्तेश्वरानन्दः सरस्वती रविवासरे उत्तरप्रदेशस्य बरेली-नगरे पत्रकारैः सह वार्तां कुर्वन् आसीत्। अस्मिन् अवसरे तेन उक्तं यत् यदा वर्तमान-सर्वकारः सत्तायाम् आगतः आसीत्, तदा जनानाम् अपेक्षा आसीत् यत् गोहत्यायां कठोरतया प्रतिबन्धः भविष्यति, किन्तु स्थितिः तस्य विपरीता दृश्यते। शंकराचार्येण उक्तः यत् प्रदेशे बूचडखानानि शासकीय-अनुमत्या हस्ताक्षरैश्च संचालितानि भवन्ति। सह तेन उक्तं यत् विदेश-विपणेषु गोमांसस्य मुक्ततया विक्रयः भवति, यत् उत्तरप्रदेश-राज्यस्य कृते गम्भीर-चिन्तायाः विषयः अस्ति।
शंकराचार्येण प्रश्नः उत्थापितः यत् यदि सर्वकारेण गोवंश-संरक्षणस्य गोहत्या-निरोधस्य च प्रतिज्ञा कृता, तर्हि भूमौ तस्य प्रभावः कुतः न दृश्यते। तेन उक्तं यत् केवल-घोषणाभिः कार्यं न भविष्यति, अपि तु प्रशासनिक-स्तरे कठोर-कार्यार्थम् आवश्यकता अस्ति। पत्रकार-वार्तायां तेन उक्तं यत् सन्त-समाजस्य उद्देश्यं राजनीतिं कर्तुं नास्ति। सन्तानां कार्यं समाजं दिशं दातुं लोककल्याणाय च स्वरं उत्थापयितुम् अस्ति। तेन उक्तं यत् धर्मस्य राजनीतेश्च उत्तरदायित्वानि पृथक् भवन्ति तथा कश्चन संन्यासी उभे भूमिके एकत्र न निर्वहति।
अग्रिम-विधानसभा-निर्वाचनस्य उल्लेखं कुर्वन् शंकराचार्यः उक्तवान् यत् जनतया एषः सर्वकारः निर्वाचनीया या गोहत्यायां पूर्णतया प्रतिबन्धं स्थापयितुं इच्छाशक्तिं धारयति। तेन सनातन-धर्मे आस्थां धारयद्भ्यः जनेभ्यः अस्मिन् विषये सजगाः भवितुम् आह्वानं कृतम्।
तेन घोषिता यत् १ मईतः सः प्रदेशस्य सर्वेषां विधानसभा-आसनानां प्रवासम् आरभ्स्यते। अस्मिन् काले जनाः जागरूकाः क्रियन्ते तथा प्रदेश-धर्महितयोः कृते का सर्वकारः आवश्यकः इति कथ्यते। तस्य मते एतद् अभियानं राजनैतिकं न, अपि तु जनजागरणस्य उद्देश्येन संचालितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता