Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ अप्रैलमासः (हि.स.)।गत-व्यापार-सप्ताहे देशस्य शीर्ष-१० मूल्यवान-निर्माणिषु षट् निर्माणिनां मार्केट-कैप-मध्ये ६४,७३४.४६ कोटि-रूप्यकाणां ह्रासः अभवत्, चतसृणां निर्माणिनां मार्केट-कैप-मध्ये ४४,८२८.४२ कोटि-रूप्यकाणां वृद्धिः जाता। अस्मिन् पतने सर्वाधिका हानिः भारती-एयरटेल-निर्माण्याः, द्वितीयस्थाने आईसी-आईसीआई-धनागारः आसीत्।
भारती-एयरटेल-निर्माण्याः मार्केट-कैप २९,९९३.०७ कोटि-रूप्यकैः न्यूनं भूत्वा १०,२०,४२०.२६ कोटि-रूप्यक-स्तरे स्थितः। आईसीआईसीआई-धनागारस्य मार्केट-कैप् १२,८४५.८१ कोटि-रूप्यकैः अल्पता जाता, बजाज-फाइनान्स, एचडीएफसी-धनागारः, हिन्दुस्तान-यूनिलीवर, स्टेट्-बैंक्-ऑफ्-इण्डिया अपि ह्रासं प्राप्तवन्तः।
अपरतः टाटा-कन्सल्टेन्सी-सर्विसेज् (टीसीएस्) सर्वाधिकं लाभं प्राप्तवती, ततः इन्फोसिस् द्वितीयस्थाने आसीत्। लार्सन्-एण्ड्-टूब्रो तथा रिलायन्स्-इण्डस्ट्रीज् अपि मार्केट-कैप-वृद्धिं प्राप्तवन्तौ। मार्केट-कैप्-दृष्ट्या रिलायन्स-इण्डस्ट्रीज १८,२८,०३४.०७ कोटि-रूप्यकैः सह देशस्य सर्वाधिक-मूल्यवती निर्माणी अभवत्। तत्पश्चात् एचडीएफसी-धनागारः, भारती-एयरटेल, स्टेट्-बैंक्-ऑफ्-इण्डिया, टीसीएस, आईसीआईसीआई-धनागारः, इन्फोसिस, बजाज-फाइनान्स, लार्सन्-एण्ड्-टूब्रो तथा हिन्दुस्तान-यूनिलीवर शीर्ष-१० मध्ये स्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता