Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 05 अप्रैलमासः (हि. स.)। वरिष्ठ-पुलिस-अधीक्षकस्य निर्देशेन दून-पुलिसेन जनपदे सर्वत्र सघन-परिशीलनं तथा सत्यापन-अभियानं सञ्चालयति। अस्य अभियानस्य उद्देश्यः सामान्यजनानां, विशेषतः महिलानां, वृद्धानां तथा बालकानां मध्ये सुरक्षाभावनां सुदृढीकरणम् अस्ति।
रविवासरस्य प्रातःकालात् एव गौरा-पुलिसस्य पृथक्-पृथक् दलानि विविध-थाना-क्षेत्रेषु सक्रियाणि आसन्। सार्वजनिक-उद्यानेषु अन्येषु च स्थलेषु प्रातः-विहारार्थं निर्गतान् जनान् तथा स्वकार्यस्थलानि प्रति गच्छन्तः नागरिकान् प्रति पुलिस-कर्मचारिणः संवादं स्थापितवन्तः, तान् च सुरक्षायाः आश्वासनं दत्तवन्तः।
अभियानस्य प्रवाहे पुलिस-दलैः संशयास्पद-परिस्थितिषु विचरन्तः व्यक्तयः प्रति पृच्छा कृत्वा आवश्यक-वैधानिक-कार्याणि अपि कृतानि। यातायात-पुलिसेन सह संयुक्तरूपेण सञ्चालिते अस्मिन् अभियाने सुरक्षा-व्यवस्थायाः अधिकं सुदृढीकरणे विशेषः ध्यानः कृतः।
पुलिस-अधिकारिणां कथनानुसारं “मित्रता, सेवा, सुरक्षा” इति सिद्धान्तं प्रभावीकरणेन सामान्यजनानां सुरक्षां सुनिश्चितुं एतादृशानि अभियानानि अग्रे अपि निरन्तरं प्रवर्तिष्यन्ते।
हिन्दुस्थान समाचार