Enter your Email Address to subscribe to our newsletters

विद्यार्थिनो द्विदिवसीयायां कार्यशालायाम् एआईद्वारा परिवर्तमानेन परिवेशेन प्राप्स्यन्ति परिचयम्
वाराणसी,05 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगरे स्थिते काशी-हिन्दू-विश्वविद्यालये (बीएचयू) पत्रकारिता-जनसंचार-विभागस्य आधाने सोमवासरे ६ अप्रैल-दिनात् आरभ्य कला-संकायस्य प्रेमचन्द-सभागारे द्विदिवसीया कार्यशाला आयोजिता भविष्यति।
अस्यां कार्यशालायां पत्रकारिता-विद्यार्थिनः डिजिटल-चलच्चित्र-निर्माणं (डिजिटल फिल्म-मेकिंग) तथा ड्रोन-उपयोगेन चित्रनिर्माणं शिक्षिष्यन्ति। छात्रेभ्यः परिवर्तमाने परिवेशे कृत्रिम-बुद्धि-तन्त्रज्ञानस्य (एआई) प्रशिक्षणम् अपि दास्यते।
एपीजे-इन्स्टिट्यूट्-ऑफ्-मास्-कम्युनिकेशन, नवी-दिल्ली इत्यस्य सहयोगेन आयोजितायाः अस्याः कार्यशालायाः समन्वयः विभागस्य एसोसिएट्-प्रोफेसरः डॉ. बाला-लखेन्द्रः करिष्यति। सह-समन्वयकौ डॉ. धीरेंद्र-कुमार-रायः तथा आयोजन-सचिवः छात्र-परामर्शदाता डॉ. शैलेन्द्र-कुमार-सिंहः नियुक्तौ स्तः।
कार्यशाला-समन्वयकः डॉ. बाला-लखेन्द्रः अवदत् यत् स्नातक-परास्नातक-स्तरे अध्ययनरताः छात्र-छात्राः डिजिटल-चलच्चित्र-निर्माणेन सह कृत्रिम-बुद्धि-परिवेशे ड्रोन-उपयोगेन चित्रनिर्माणे अपि प्रशिक्षिताः भविष्यन्ति।
तेन उक्तं यत् कार्यशालायाः उद्घाटनं बीएचयू-कुलपतिः प्रो. अजीत-कुमार-चतुर्वेदी करिष्यति, तथा उद्घाटन-समारोहस्य अध्यक्षता कला-संकायस्य प्रमुखा प्रो. सुषमा-घिल्डियाल करिष्यति।
उद्घाटन-सत्रे छात्र-कल्याण-अध्यक्षः प्रो. रंजन-कुमार-सिंहः, एपीजे-इन्स्टिट्यूट्-निदेशकः प्रो. सजल-मुखर्जी, डीआईएल-पानीपत-निदेशिका प्रो. प्रेरणा-डावर-सलूजा, विषय-विशेषज्ञाः प्रो. मुदिता-राज, प्रो. नवीन-गौतम, प्रो. अंकित-कुमार-मलयन इत्यादयः अपि सहभागी भविष्यन्ति।
द्विदिवसीयायां अस्यां कार्यशालायां चलचित्र-निर्माणस्य विविधेषु तकनीकी-पक्षेषु व्यावहारिक-सैद्धान्तिक-ज्ञानम् अपि छात्रेभ्यः प्रदास्यते।-----------
हिन्दुस्थान समाचार