श्री काशी विश्वनाथ धाम्नो मंदिरचतुष्पथि स्थापिता विक्रमादित्य वैदिक घटी, श्रद्धालूनां जातं आकर्षणम्
—मध्य प्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवो वैदिकघटीं दत्तवान् वाराणसी, 05 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य धार्मिकनगऱ्यां वाराणसी स्थिते श्रीकाशीविश्वनाथधामस्य मन्दिरचत्वरे विक्रमादित्यवैदिकघटी विधिवत् स्थापिताऽस्ति। आकर्षणस्य नूतनं केन्द्रं ज
श्री काशी विश्वनाथ धाम के मंदिर चौक में स्थापित वैदिक घड़ी


श्री काशी विश्वनाथ धाम के मंदिर चौक में स्थापित वैदिक घड़ी


—मध्य प्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवो वैदिकघटीं दत्तवान्

वाराणसी, 05 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य धार्मिकनगऱ्यां वाराणसी स्थिते श्रीकाशीविश्वनाथधामस्य मन्दिरचत्वरे विक्रमादित्यवैदिकघटी विधिवत् स्थापिताऽस्ति। आकर्षणस्य नूतनं केन्द्रं जाता एषा प्रायः दशफुटोन्नता आयताकारा च घटिका सनातनपरम्पराः तथा हिन्दूनववर्षाधारितवैदिककालगणनापद्धतिं आधृत्य निर्मिता अस्ति, या श्रद्धालुभिः न केवलं रोच्यते अपि तु प्रशस्यते अपि।

एषा विशिष्टा घटिका डॉ. मोहन यादव द्वारा योगी आदित्यनाथ महोदयाय उपहृताऽभूत्। ३ अप्रैल २०२६ तमे दिने वाराणस्यां आयोजितस्य ‘सम्राट् विक्रमादित्य’ महानाट्यस्य मंचनात् पूर्वं एषा भेंटः प्रदत्ता, अनन्तरं च धामपरिसरे स्थापिताऽभूत्।

रविवासरे श्रीकाशीविश्वनाथमन्दिरस्य मुख्यकार्यपालकअधिकारी डॉ. विश्वभूषण मिश्र अवदत् यत् एषा घटिका सूर्योदयात् परं सूर्योदयपर्यन्तं कालगणनां करोति, यस्मिन् कुलं त्रिंशत् मुहूर्ताः भवन्ति।

एषा घटिका न केवलं सामान्यकालं दर्शयति, अपि तु पञ्चाङ्गम्, शुभमुहूर्तान्, ग्रह-नक्षत्राणां स्थितिं, तापमानम्, आर्द्रतां तथा वायोर्गमनवेगं अपि प्रदर्शयति। सह एव एषा भारतीयमानकसमयं, ग्रीनविचमीनटाइम तथा वैदिककालं अपि सूचयति।

अस्याः घटिकायाः सम्बन्धितः मोबाइल-अनुप्रयोगः अपि विकसितः अस्ति, यः १८९ अधिकभाषासु उपलब्धः अस्ति, अस्मिन् च सप्तसहस्रवर्षाधिकस्य पञ्चाङ्गदत्तांशः संगृहीतः अस्ति।

अनेन परियोजनया प्राचीनभारतीयकालगणनापद्धतेः पुनर्स्थापनं कर्तुं लक्ष्यं निर्धारितम्, या महाराजविक्रमादित्यकालात् सम्बद्धा मन्यते। अस्य विकासः उज्जयिन्यां स्थितेन महाराजविक्रमादित्यशोधपीठेन कृतः।

गौरवणीयं यत् विश्वस्य प्रथमं विक्रमादित्यवैदिकघटी उज्जैन नगरे स्थापिताऽभूत्। अनन्तरं भोपालस्थिते मुख्यमन्त्रिनिवासे स्थापिता, अधुना च काश्याम् अपि संस्थापिता अस्ति।

मध्यप्रदेशसरकारस्य योजनानुसारं भविष्ये देशस्य अन्येषु ज्योतिर्लिङ्गेषु अपि एतादृश्याः घटिकाः स्थापयितुं योजना अस्ति।

अस्याः घटिकायाः अन्यत् वैशिष्ट्यं तस्याः आकर्षकं डिजिटल-पृष्ठभूमिचित्रम्, यत्र प्रति घण्टा देशविदेशयोः प्रमुखपर्यटनस्थलानां चित्राणि परिवर्तन्ते।

एषः धार्मिकश्रद्धायाः आधुनिकतन्त्रज्ञानस्य च अद्वितीयः संगमः भारतीयसंस्कृतेः, खगोलविज्ञानस्य तथा पारम्परिकज्ञानस्य जनसामान्यपर्यन्तं प्रसारणस्य दिशि महत्वपूर्णा प्रयत्नः इति मन्यते।

हिन्दुस्थान समाचार