Enter your Email Address to subscribe to our newsletters

हरिद्वारम् , 05 अप्रैलमासः (हि.स.):
गायत्रीतीर्थशांतिकुञ्जे अखिलभारतीयग्राहकपञ्चायतस्य द्विदिवसीया राष्ट्रियसाधारणसभा अद्य सम्पन्ना अभवत्। राष्ट्रीयस्वयंसेवकसंघात् प्रेरितस्य अस्य संगठनस्य उपवेशने देशस्य विभिन्नप्रदेशेभ्यः आगताः प्रतिनिधयः उपभोक्ताअधिकारान् संगठनस्य भूमिकां सामाजिकजागरूकतां च विषयान् अधिगम्य विचारविमर्शं कृतवन्तः।
अस्मिन् अवसरे शांतिकुञ्जस्य व्यवस्थापकः योगेन्द्रगिरिः अवदत् यत् राष्ट्रस्य समग्रविकासाय सकारात्मकचिन्तनयुक्तानां जागरूकनागरिकाणां आवश्यकता अस्ति। सः उक्तवान् यत् अखिलविश्वगायत्रीपरिवारः समाजे नैतिकमूल्यानां संस्काराणां च प्रसाराय निरन्तरं कार्यं करोति। सः पण्डितश्रीरामशर्माचार्यस्य विचारान् उल्लेख्य तेषां सिद्धान्तान् समाजस्य राष्ट्रस्य च संतुलितविकासाय मार्गदर्शकान् इति अभ्यधात्।
कार्यक्रमे संगठनस्य राष्ट्रीयाध्यक्षः नारायणभाईशाहः उपाध्यक्षः आशासिंहः सहिताः अन्ये पदाधिकारीणः उपभोक्ताजागरूकतां युवा सशक्तिकरणं सामाजिकउत्तरदायित्वं च प्राथमिकतारूपेण निर्दिश्य संगठनस्य भावियोजनासु प्रकाशं कृतवन्तः। द्विदिवसीयस्य आयोजनस्य समये ‘ग्राहकदृष्टि’ नाम पुस्तिकायाः अपि विमोचनं कृतम्। सभायां उत्तरप्रदेशः गुजरातः उत्तराखण्डः दिल्ली कर्नाटकः च सहिताः विभिन्नराज्येभ्यः आगताः लगभग द्विशतपञ्चाशत् प्रतिनिधयः सहभागित्वं कृतवन्तः।
हिन्दुस्थान समाचार