मध्यप्रदेशस्य मुख्यमंत्रिणः प्रयत्नेन काशी विश्वनाथ मंदिरे स्थापितः विश्वस्य प्रथमा“विक्रमादित्यवैदिकघटी”
- अधुना बाबा विश्वनाथस्य धाम्नि गूंजिष्यति भारतीय कालगणनाभोपालम्, 05 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहनयादवस्य विशेषप्रयासेन भारतीयकालगणनायाः आधारेण निर्मिता विश्वस्य प्रथमाऽयं “विक्रमादित्यवैदिकघटी” उत्तरप्रदेशस्य वाराणसीस्थ
उत्तर प्रदेश के काशी विश्वनाथ मंदिर में स्थापित हुई विश्व की प्रथम “विक्रमादित्य वैदिक घड़ी”


- अधुना बाबा विश्वनाथस्य धाम्नि गूंजिष्यति भारतीय कालगणनाभोपालम्, 05 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहनयादवस्य विशेषप्रयासेन भारतीयकालगणनायाः आधारेण निर्मिता विश्वस्य प्रथमाऽयं “विक्रमादित्यवैदिकघटी” उत्तरप्रदेशस्य वाराणसीस्थिते काशीविश्वनाथमन्दिरपरिसरे मन्दिरचत्वरे स्थापिताऽस्ति।

एवं प्रकारेण कालगणनायाः पावननगरी तथा “महाकालस्य” केन्द्रम् उज्जयिन्याः निर्गता भारतीयसंस्कृतेः गौरवशालिनी परम्परा अधुना बाबा विश्वनाथस्य नगरी काश्यामपि सजीवता प्राप्तवती।

जनसम्पर्काधिकारी अनुरागउइके रविवासरे अवदत् यत् मुख्यमन्त्री डॉ. मोहनयादवः तृतीये अप्रैलदिने उत्तरप्रदेशस्य मुख्यमन्त्रिणे योगीआदित्यनाथाय बाबा काशीविश्वनाथाय अर्पणार्थं एतां घटीं समर्पितवान्। ततः विक्रमसंवत् २०८३ वैशाखकृष्णपक्षस्य द्वितीयायां (४ अप्रैल २०२६) दिवसे एषा मन्दिरपरिसरे श्रद्धया विधिविधानपूर्वकं प्रतिष्ठापिता। एषा मध्यप्रदेशसरकारस्य तस्मिन् संकल्पे महत्त्वपूर्णं पदं यत् देशस्य सर्वेषु ज्योतिर्लिङ्गेषु अयोध्यायाः श्रीराममन्दिरे च अपि एतादृश्याः वैदिकघट्याः स्थापना क्रियते।

परम्पराया आधुनिकतायाश्च अद्भुतः समन्वयः दृश्यते। उज्जयिन्याः “महाराजाविक्रमादित्यशोधपीठेन” विकसितेयं घटी केवलं समयदर्शकं यन्त्रं न, अपितु भारतस्य प्राचीनवैज्ञानिकज्ञानस्य डिजिटलरूपेण पुनरुत्थानम् अस्ति। एषा घटी सूर्योदयात् प्रवर्तते तथा एकं दिवसं त्रिंशत् मुहूर्तेषु विभजति। अस्याः विशेषता अस्ति यत् एषा स्थानविशिष्टसूर्योदयसूर्यास्तयोः आधारेण यथार्थकालगणनां करोति।

एतस्याः घट्याः माध्यमेन श्रद्धालवः युवा च भारतीयमानकसमयं (आईएसटी) ज्ञातुं शक्नुवन्ति, अपि च पञ्चाङ्गं तिथिः योगः नक्षत्रम् भद्रास्थितिः ग्रहगोचराः इत्यादीनि सूक्ष्मविवरणानि अपि ज्ञास्यन्ति।

जनसम्पर्काधिकारी उक्तवान् यत् मुख्यमन्त्रिणः डॉ. यादवस्य नेतृत्वे मध्यप्रदेशसरकारः स्वस्य सांस्कृतिकधरोहरं आधुनिकतन्त्रज्ञानसहितं संरक्षितुं निरन्तरं प्रयत्नशीलः अस्ति। एषा वैदिकघटी अस्माकं गौरवशालिनं अतीतं वर्तमानेन संयोज्य युवान् स्वमूलानि प्रति प्रत्यागन्तुं प्रेरयिष्यति।

मध्यप्रदेशशासनस्य संस्कृतिविभागस्य अन्तर्गतं महाराजाविक्रमादित्यशोधपीठेन उज्जयिन्यां भारतीयकालगणनायाः आधारेण विश्वस्य प्रथमाऽयं विक्रमादित्यवैदिकघटी स्थापिताऽस्ति। एषा घटी भारतस्य प्राचीनकालगणनापरम्परायाः आधुनिकडिजिटलतन्त्रज्ञानद्वारा पुनर्स्थापनस्य अभिनवप्रयत्नः अस्ति।

प्रधानमन्त्रिणा नरेन्द्रमोदिना विक्रमादित्यवैदिकघट्याः लोकार्पणं २९ फरवरी २०२४ दिवसे फाल्गुनसंवत् २०८० कृष्णपक्षस्य पञ्चम्यां वरुणमुहूर्ते (त्रयोदशे मुहूर्ते) कृतम्।

________________

हिन्दुस्थान समाचार