पश्चिम बंगाले प्रधानमंत्री अवैधप्रवेशः, प्रशासनिकव्यवस्था अथ भ्रष्टाचारश्च उक्ताः समस्याः, अवदत् यत्-परिवर्तनन्निश्चितम्
नवदिल्ली, 05 अप्रैलमासः (हि.स.)। भारतीयजनतादलस्य वरिष्ठनेता तथा प्रधानमन्त्रिणः नरेन्द्र मोदिनः पश्चिमबंगालराज्यस्य कूचबिहारनगर्यां आयोजितायां निर्वाचनसभायां ऑल इंडिया तृणमूल कांग्रेसदलं प्रति भ्रष्टाचारं तुष्टीकरणं भयस्य च राजनीतिं कर्तुम् आरोपं क
कूचबिहार में रविवार को आयोजित चुनावी रैली में उपस्थित जनसभा को संबोधित करते प्रधानमंत्री नरेन्द्र मोदी।


नवदिल्ली, 05 अप्रैलमासः (हि.स.)। भारतीयजनतादलस्य वरिष्ठनेता तथा प्रधानमन्त्रिणः नरेन्द्र मोदिनः पश्चिमबंगालराज्यस्य कूचबिहारनगर्यां आयोजितायां निर्वाचनसभायां ऑल इंडिया तृणमूल कांग्रेसदलं प्रति भ्रष्टाचारं तुष्टीकरणं भयस्य च राजनीतिं कर्तुम् आरोपं कृतवान्। तेन भाजपा दलः विकासस्य सुशासनस्य च विकल्परूपेण निर्दिष्टः, राज्ये परिवर्तनं निश्चितमिति उक्तम्।

कूचबिहारस्य ब्रिगेडग्राउण्डे रविवासरे आयोजितां जनसभां सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् राज्ये निर्मीयमानः वातावरणः केवलं राजनैतिककार्यक्रमः न, अपितु बंगालप्रदेशस्य भविष्यपरिवर्तनस्य जनभावनायाः सूचकः अस्ति। तेन आरोपितं यत् राज्ये अवैधप्रवेशनं गम्भीरा समस्या अभवत्, तथा तृणमूलकांग्रेसदलेन एतेषां संरक्षणं कृत्वा ते मतकोषरूपेण उपयुज्यन्ते, येन सुरक्षा सामाजिकसंतुलनं च प्रभावितम्।

प्रधानमन्त्रिणा उक्तं यत् केन्द्रसरकारः एतस्य अवैधप्रवेशनस्य निरोधनार्थं प्रतिबद्धा अस्ति तथा अस्मिन् विषये निरन्तरं उपायाः क्रियन्ते। तुष्टीकरणराजनीतिः राज्यस्य अस्मितायै संकटकारिणी इति उक्त्वा, बंगालप्रदेशस्य सांस्कृतिकऐतिहासिकधरोहररक्षणार्थं सुदृढनेतृत्वस्य आवश्यकता वर्तते इति सः अवदत्।

कानूनव्यवस्थाविषये सः मालदाजनपदस्य घटनां निर्दिश्य उक्तवान् यत् न्यायिकाधिकारिणां बन्धककरणवत् घटनाः अत्यन्तं चिन्ताजनकाः सन्ति। यदा न्यायप्रक्रियैव सुरक्षितं नास्ति, तदा सामान्यनागरिकस्य सुरक्षायाः विषये अपि प्रश्नाः स्वाभाविकाः भवन्ति। तस्य मतानुसारं राज्ये “महाजङ्गलराज” इव स्थिति निर्मिता अस्ति तथा कानूनव्यवस्था पूर्णतया विकलिता।

कृषकविषये प्रधानमन्त्रिणा उक्तं यत् राज्ये कृषकाः स्वस्य उत्पादस्य यथोचितं मूल्यं न प्राप्नुवन्ति। शीतगृहाभावात् विशेषतः आलूकानाम्उत्पादककृषकाः हानिं वहन्ति। तेन आश्वासनं दत्तं यत् भाजपा सरकारस्य निर्माणे कृषिक्षेत्रं सुदृढं भविष्यति तथा कृषकाणां कृते उत्तमसुविधाः प्रदास्यन्ते।

तेन उक्तं यत् एतत् निर्वाचनं पश्चिमबंगालस्य भविष्यनिर्णायकं निर्वाचनम् अस्ति। मतदातृभ्यः अपि आह्वानं कृतं यत् ते स्वसन्तानानां भविष्यं कृषकहितं स्त्रीसुरक्षा राज्यविकासं च मनसि निधाय मतदानं कुर्वन्तु। सः विश्वासं व्यक्तवान् यत् भाजपा विजयात् अनन्तरं नूतनसरकारः स्थाप्यते तथा उत्तरबंगालसहितं समग्रप्रदेशे वर्तमानान्यायस्य अन्तः भविष्यति।

स्त्रीसशक्तिकरणविषये अपि प्रधानमन्त्रिणा उक्तं यत् केन्द्रसरकारेण अस्मिन् क्षेत्रे बहवः महत्वपूर्णाः उपायाः कृताः। देशे प्रायः त्रिकोट्यः महिलाः “लखपतिदीदी” रूपेण स्थापिताः सन्ति, तथा संसद् विधानसभासु च त्रयस्त्रिंशत्प्रतिशत आरक्षणस्य कार्यं प्रचलति। स्त्रीणां सुरक्षा सम्मानश्च भाजपा दलस्य प्राथमिकता अस्ति इति सः अवदत्।

प्रधानमन्त्रिणा तृणमूलसर्वकारं प्रति “सिण्डिकेटराज”, “कटमनी” तथा भ्रष्टाचारवृद्धेः आरोपः कृतः। तेन उक्तं यत् एतेन उद्योगाः बन्दाः भवन्ति, रोजगारावकाशाः न्यूनाः भवन्ति, युवानः च पलायनं कुर्वन्ति। पूर्वं बंगालप्रदेशः अग्रणी राज्येषु आसीत्, अधुना तस्य स्थिति दुर्बला जाता इति सः अवदत्।

बेरोजगारीविषये सः अवदत् यत् युवानां भविष्येन सह क्रीडा कृता। शिक्षकनियुक्तिभ्रष्टाचारस्य उल्लेखं कृत्वा आरोपितं यत् अस्मिन् प्रकरणे सत्तासम्बद्धाः जनाः संलिप्ताः आसन्, येन युवानां विश्वासः भग्नः तथा व्यवस्था दुर्बला जाता।

स्वस्य भाषणस्य अन्ते प्रधानमन्त्रिणा मतदातृभ्यः आह्वानं कृतं यत् ते मतदानदिने निर्भयतया स्वमताधिकारं उपयुञ्जीरन्। जनाः विधौ विश्वासं धारयन्तु, भाजपा विजयात् अनन्तरं राज्ये भयवातावरणस्य अन्तः भविष्यति इति सः उक्तवान्।---------------

हिन्दुस्थान समाचार