Enter your Email Address to subscribe to our newsletters

वियनानगरम्, ०५ अप्रैलमासः (हि.स.)।ऑस्ट्रियादेशस्य उप-चांसलरः आन्द्रेयास-बाब्लरः अमेरिकादेशस्य राष्ट्रपतिः डोनाल्डट्रम्पस्य “अराजक-नीतिम्” आलोच्य उक्तवान् यत् ऑस्ट्रिया कस्यापि सैन्य-संघर्षस्य भागं न भविष्यति, न च कठोर-परीक्षणं विना स्व-आकाश-क्षेत्रस्य उपयोगं अनुमन्यते। सः अवदत् यत् देशः स्वस्य ऐतिहासिक-तटस्थतायाः विषये कामपि सन्धिं न करिष्यति।
पश्चिम-एशियायाम् अमेरिका-इजरायल-ईरान-देशानां मध्ये प्रचलित-संघर्षस्य तथा नाटो-संघटनस्य अन्तर्गत-मतभेदानां मध्ये वियना-नगरस्य एतत् दृष्टिकोणं यूरोपे रणनैतिक-असहमत्याः परिवर्तमान-वैश्विक-सन्धिनां च संकेतं ददाति।
अनाडोलू-समाचार-संस्थायाः अनुसारं उप-चांसलरः अवदत् यत् ऑस्ट्रिया अमेरिकीय-नीतेः भागः नास्ति, अस्मिन् विषये च वयं कदापि न प्रत्यावर्तिष्यामः। तेन उक्तं यत् वियना-तटस्थता “असन्धि-योग्या” अस्ति, सा च अमेरिकीय-सैन्य-विमान-उड्डयनम् अपि प्रति समानरूपेण नियुक्तं भवति।
सः सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लिखितवान् यत् ऑस्ट्रियाई-आकाश-क्षेत्रे अमेरिकीय-सैन्य-विमानानाम् उड्डयनं दृष्ट्वा स्पष्ट-सीमा-निर्धारणम् आवश्यकम्। एतादृशेषु उड्डयनेषु, ये प्रत्यक्षतया संघर्ष-क्षेत्रं न प्रविशन्ति किन्तु सैन्य-कार्याणि सहाय्यं कुर्वन्ति, तेषामपि गहन-परीक्षणं कर्तव्यम् इति सः उक्तवान्।
ऑस्ट्रिया १९५५ वर्षात् आरभ्य तटस्थता-नीतिम् अनुसरति, यस्यानुसारं सः कस्यापि सैन्य-संघस्य सदस्यत्वं न स्वीकरोति, न च स्व-भूमौ विदेशीय-सैन्य-संस्थात्राणां स्थापने अनुमतिं ददाति।
ईरान-संबद्धे अमेरिका-इजरायल-संघर्षस्य द्वितीय-मासे एताः टिप्पण्यः आगताः। अस्मिन् संघर्षे बहवः जनाः मृताः, ईरानेन च ड्रोन-मिसाइल-आक्रमणानि कृत्वा इजरायल-जॉर्डन-इराक-अमेरिकी-सेनायाः सज्जता-स्थलानि लक्षीकृतानि।
एतस्मिन्नन्तरे डोनाल्डट्रम्पः नाटो-सहयोगिभ्यः होर्मुज़-जलडमरूमध्यस्य सुरक्षार्थं नौसैनिक-बलं प्रेषयितुम् आह्वानं कृतवान्, किन्तु अनेके प्रमुख-सदस्याः अस्मिन् सहभागं अस्वीकृतवन्तः, येन संघटनस्य अन्तर्गत-रणनैतिक-मतभेदाः अधिकं स्पष्टाः अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता