Enter your Email Address to subscribe to our newsletters

हरिद्वार, 05 अप्रैलमासः (हि.स.)।जनपद-वासिनां समस्याणां शीघ्रं प्रभावी-निवारणार्थं जिलाधिकारी मयूर-दीक्षितः २०२६–२७ वर्षाय आयोजितानां तहसील-दिवसानां रोस्टर इत्येतत् प्रकाशितवान्।
शासन-निर्देशानुसारं प्रत्येकस्य मासस्य प्रथम-तृतीय-मङ्गलवासरेषु सम्बन्धितेषु तहसील-मुख्यालयेषु प्रातः १० वादनात् अपराह्ण १ वादनपर्यन्तं तहसील-दिवसः आयोज्यते।
अस्य व्यवस्थायाः मुख्यः उद्देश्यः सामान्य-नागरिकानां समस्यासमाधानार्थं जिला-मण्डल-मुख्यालययोः गमनस्य आवश्यकता-निवारणम् अस्ति, यतः अधिकारिणः स्वयमेव जनेषु उपस्थित्य स्थल एव परिवादानां (अभियोगानां) समाधानं सुनिश्चितुं शक्नुवन्ति।
प्रकाशित-रोस्टरानुसारं जनपदस्य सर्वासु तहसीलेषु—हरिद्वार, रुड़की, लक्सर तथा भगवानपुर—एकस्मिन् एव काले तहसील-दिवसस्य आयोजनं भविष्यति। अस्य कार्यक्रमस्य अध्यक्षता सम्बन्धितः उपजिलाधिकारी (एसडीएम) करिष्यति। अस्मिन् जिला-स्तरीय-अधिकारीणः, क्षेत्राधिकारी, तहसीलदारः तथा खण्ड-विकास-अधिकारी च अनिवार्यतया उपस्थिताः भविष्यन्ति।
जिलाधिकारी आदेशं दत्तवान् यत् तहसील-दिवसे प्राप्तानां शिकायतानां गुणवत्तापूर्णं समयबद्धं च निस्तारणं प्राथमिकतया क्रियताम्। कार्यक्रमस्य निरीक्षणं स्वयं जिलाधिकारी यादृच्छया निरीक्षणेन करिष्यति। आवश्यकतानुसारं सः कस्यामपि तहसीले उपस्थित्य कार्यक्रमस्य अध्यक्षताम् अपि करिष्यति।
जिलाधिकारी जनपद-वासिनः प्रति आह्वानं कृतवान् यत् ते स्वस्य समस्यासमाधानार्थं निर्दिष्ट-तिथिषु स्व-निकटस्थे तहसील-मुख्यालये उपस्थित्य अस्य व्यवस्थायाः अधिकतमं लाभं गृह्णन्तु।
तहसील-दिवसाः ०७ अप्रैल २०२६ तः आरभ्य १६ मार्च २०२७ पर्यन्तं आयोजिताः भविष्यन्ति।
हिन्दुस्थान समाचार