लक्सर-नगरे सोत्साहेन महर्षेः कश्यपस्य जन्मोत्सवः सम्यक् आचरितः
हरिद्वारनगरम्, ०५ अप्रैलमासः (हि.स.)। जनपदस्य लक्सर-क्षेत्रे महर्षेः कश्यपस्य जन्मोत्सवः रविवासरे हर्षोल्लासेन श्रद्धया च सम्यक् आचरितः। लक्सर-सुल्तानपुर-क्षेत्रस्य भोगपुर-टीककमपुर-फतवा-कंकरखाता-सुल्तानपुर-महतोलीत्यादिषु द्वादशाधिकेषु ग्रामेषु धार्
लक्सर-नगरे सोत्साहेन महर्षेः कश्यपस्य जन्मोत्सवः सम्यक् आचरितः


हरिद्वारनगरम्, ०५ अप्रैलमासः (हि.स.)। जनपदस्य लक्सर-क्षेत्रे महर्षेः कश्यपस्य जन्मोत्सवः रविवासरे हर्षोल्लासेन श्रद्धया च सम्यक् आचरितः। लक्सर-सुल्तानपुर-क्षेत्रस्य भोगपुर-टीककमपुर-फतवा-कंकरखाता-सुल्तानपुर-महतोलीत्यादिषु द्वादशाधिकेषु ग्रामेषु धार्मिक-कार्यक्रमाः, हवन-पूजनम् तथा शोभायात्राः अपि आयोजिताः।

प्रातःकालात् एव महर्षि-कश्यप-मन्दिरेषु श्रद्धालूनां सम्मर्द: अभवत्। श्रद्धालवः हवन-पूजनं कृत्वा महर्षेः कश्यपस्य प्रतिमायां पुष्पाणि अर्पितवन्तः तथा विधिवत् धार्मिक-अनुष्ठानानि सम्पन्नानि। लक्सर-नगरपालिका-स्थितायां कश्यप-कालोनी अपि विशेष-कार्यक्रमाः आयोजिताः।

कश्यप-एकता-युवा-मञ्चस्य अध्यक्षः रवि-कश्यप-महोदयः उक्तवान् यत् प्रातः हवन-पूजनानन्तरं मध्याह्ने विशाल-भण्डारस्य आयोजनं कृतम्। ततः अनन्तरं मृदौगानां निनादेन आकर्षक-प्रदर्शिनिभिः सह शोभायात्रा अपि निर्गता, या नगरस्य प्रमुख-मार्गैः गत्वा पुनः कश्यप-कालोनीं प्रति समाप्ता।

संरक्षकः अधिवक्ता नरेश-कश्यप-महोदयः उक्तवान् यत् महर्षेः कश्यपस्य सिद्धान्ताः समाजाय दिशां ददति, तेषां आदर्शानां अनुसरणेन समाजः संगठितः शिक्षितश्च भवितुं शक्नोति। तेन यून: प्रति शिक्षायाः विषये जागरूकतां धारयितुं तथा समाजे एकतां स्थापयितुं अपि आह्वानं कृतम्।

भाजपा-नेता शिवम्-कश्यप-महोदयः अपि उक्तवान् यत् महर्षेः कश्यपस्य आदर्शाः समाजं एकत्र कर्तुं अग्रे नेतुं च प्रेरणां ददति। तेन शिक्षा, संगठनम् तथा संस्काराः समाज-विकासस्य आधारः इति निरूपित:।

अस्मिन् अवसरे पंकज-कश्यपः, नरेश-मिस्त्री, अमित-कश्यपः, मामचन्द-कश्यपः, वेद-प्रकाशः, राजेश-कश्यपः, डॉ. सोमपाल-कश्यपः इत्यादयः बहुसंख्यकाः कश्यप-समाजस्य सदस्याः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता