Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अप्रैलमासः (हि.स.)। प्रधानमन्त्रि श्री-नरेन्द्र-मोदी, केन्द्रीय-गृह-सहकारिता-मन्त्री अमित-शाहः तथा भाजपा-राष्ट्रीय-अध्यक्षः नितिन-नवीनः इत्येतैः सह अनेके नेतारः सोमवासरे भारतीयजनता-पक्षस्य (भाजपा) स्थापना-दिवसावसरे सर्वेभ्यः कार्यकर्तृभ्यः शुभकामनाः दत्तवन्तः।
प्रधानमन्त्री श्री-नरेन्द्र-मोदी एक्स-इत्यत्र उक्तवान्— “भाजपा-स्थापना-दिवसावसरे सर्वेभ्यः भाजपा-कार्यकर्तृभ्यः हार्दिक्यः शुभकामनाः। अस्माकं पक्षः सदा ‘भारत-प्रथमः’ इति सिद्धान्तेन प्रेरितः समाज-सेवायां अग्रणी अभवत्। अस्माकं कार्यकर्तारः निःस्वार्थ-सेवा, अटूट-समर्पणं तथा सुशासनं प्रति प्रगाढ-निष्ठा इत्येतैः कारणैः प्रसिद्धाः सन्ति। भाजपा विकसित-भारत-निर्माणाय प्रतिबद्धा अस्ति। अस्माकं सहभाग-प्रतिबद्धता एतं दृष्टिकोणं अग्रे नयतु तथा भारतं प्रगतेः समृद्धेश्च नूतन-उच्चतां प्रति नयतु।”
अमित-शाहः उक्तवान् यत् भाजपा लोकतन्त्रस्य मूलानि सुदृढीकृत्य देशं तुष्टीकरणात् मुक्तं कृत्वा सुशासनं पारदर्शितां च प्रतिष्ठापितवती। अद्य भाजपा केवलं पक्षः नास्ति, अपि तु १४० कोटि-देशवासिनां स्वप्नानाम् आकाङ्क्षाणां च प्रतिनिधिः अभवत्।
नितिन-नवीनः अवदत् यत् जनसंघ-कालात् आरभ्य अद्य विश्वस्य बृहत्तम-पक्षत्वं प्राप्तुं यावत् एषा यात्रा असंख्य-कार्यकर्तृणां त्याग-तपस्या-बलिदानस्य कथा अस्ति। डॉ.श्यामा-प्रसाद-मुखर्जी तथा पण्डित-दीनदयाल-उपाध्याययोः ‘अन्त्योदय’ स्वप्नं प्रधानमन्त्रिणः मोदिनः नेतृत्वे अधुना भूमौ साकारं भवति।
केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी उक्तवान् यत् कठिन-परिश्रम-समर्पण-भावेन पक्षं सुदृढीकृत्य विशाल-वटवृक्षरूपेण निर्मितवन्तः सर्वे महापुरुषाः वन्दनीयाः सन्ति।
केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-मन्त्री जेपी-नड्डा अवदत् यत् अस्मिन् विशेष-दिवसे तेषां सर्वेषां महतां विभूतिनां पितृपुरुषाणां च कृतज्ञतया नमनं करोमि, ये स्वस्य अथक-परिश्रम-त्यागेन संघटनं सीञ्चित्वा राष्ट्रीय-राजनीत्याः शिखरं प्रापितवन्तः।
केन्द्रीय-पर्यटन-संस्कृति-मन्त्री गजेन्द्र-सिंह-शेखावतः उक्तवान् यत् प्रधानमन्त्रिणः मोदिनः दूरदर्शी-नेतृत्वे पक्षः सेवा-सुशासन-निर्धन-कल्याणं भारतीय-राजनीत्याः मूल-मन्त्रत्वेन स्थापितवान्।
केन्द्रीय-वस्त्र-मन्त्री गिरिराज-सिंहः अवदत् यत् संघर्षस्य तापेन एव सफलतायाः स्वर्णं दीव्यति। विचारात् विस्तारं, तपस्यात् परिवर्तनं यावत् एषा यात्रा कठिनाऽपि आसीत्, किन्तु समर्पणेन सर्वाः बाधाः मार्गरूपेण परिवर्तिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता