Enter your Email Address to subscribe to our newsletters

हुगली, 06 अप्रैलमासः (हि.स.)।
हुगली-जिले आरामबाग-नगरपालिकायाः चतुर्थ-मतदानकेंद्रे रविवासरे सायंकाले निर्वाचन-प्रचारस्य समये राजनीतिक-वातावरणं पुनः उष्णतां गतम्। भारतीयजनतादलस्य अभ्यर्थी हेमन्त बाग क्षेत्रस्य विभिन्नेषु भागेषु जनसम्पर्क-अभियानं चालयामास।
प्रचारस्य समाप्तेः अनन्तरं पुरातन-बाजार-प्रदेशे तृणमूल-कांग्रेस-दलस्य कार्यालयस्य सम्मुखे भाजपा-पक्षतः एका सभा आयोजिता। अस्मिन् एव समये वार्ड-निवासी सुभाषचन्द्र-दोलुई तथा स्थानीय-व्यवसायी आलोक-धारा औपचारिकतया भाजपा-दले सम्मिलितौ अभवताम्। भाजपा-नेतारः ताभ्यां दल-ध्वजं दत्त्वा तयोः स्वागतं कृतवन्तः।
सूचनानुसारं सुभाषचन्द्र-दोलुई पूर्वं कस्यचित् राजनीतिक-दलस्य सह प्रत्यक्षतया सम्बद्धः नासीत्, किन्तु अस्मिन् निर्वाचनकाले सः भाजपा-पक्षे सक्रियतया कार्यं कर्तुम् इच्छां व्यक्तवान्। अपरतः आलोक-धारायाः उक्तिः यत् सः पूर्वं भाजपा-दले सम्बद्धः आसीत्, किन्तु व्यापारिक-भारात् किञ्चित्कालं तृणमूल-कांग्रेस-दले सम्मिलितः अभवत्, अधुना पुनः भाजपा-दले प्रत्यागतः।
अस्मिन् अवसरे भाजपा-अभ्यर्थी हेमन्त बाग उक्तवान् यत् जनाः स्वयमेव प्रेरिताः सन्तः भाजपा-दले सम्मिलन्ति, परिवर्तनस्य लहरः स्पष्टतया दृश्यते। अपरतः अस्य सम्पूर्ण-घटनाक्रमस्य विषये तृणमूल-कांग्रेस-दलस्य अभ्यर्थिनी मीता बाग तीक्ष्णां प्रतिक्रिया दत्त्वा उक्तवती यत् ये जनाः सम्मिलिताः, ते कदापि तृणमूलस्य कार्यकर्तारः न आसन्, एषा सम्पूर्णा घटना योजनाबद्धः नाटकम् इव अस्ति।
---------------
हिन्दुस्थान समाचार