हिमंत सरमा पवन खेड़ा - गौरव गोगोईं प्रति मनःकल्पितप्रपत्रैः मतदानं प्रभावयितुम् आरोपवन्तौ
-पवन खेड़ा असत्यं मनःकल्पितम् आरोपं कृतवान्, प्राथमिकी अंकिता- मुख्यमंत्री गुवाहाटी, 06 अप्रैलमासः (हि.स.)। असम-राज्ये राजनैतिक-संघर्षः अद्य अधिकं तीव्रः अभवत्, यदा मुख्यमंत्री हिमंत बिस्व सरमा कांग्रेस-दलस्य नेतॄन् प्रति मनगढ़ित-दस्तावेजानां प्रय
असम प्रदेश भाजपा मुख्यालय में सोमवार को आयोजित संवाददाता सम्मेलन को संबोधित करते मुख्यमंत्री  डॉ. हिमंत बिस्व सरमा


-पवन खेड़ा असत्यं मनःकल्पितम् आरोपं कृतवान्, प्राथमिकी अंकिता- मुख्यमंत्री

गुवाहाटी, 06 अप्रैलमासः (हि.स.)। असम-राज्ये राजनैतिक-संघर्षः अद्य अधिकं तीव्रः अभवत्, यदा मुख्यमंत्री हिमंत बिस्व सरमा कांग्रेस-दलस्य नेतॄन् प्रति मनगढ़ित-दस्तावेजानां प्रयोगस्य तथा निर्वाचन-प्रक्रियायाः प्रभावितुं प्रयत्नस्य आरोपं कृतवान्। अस्य विवादस्य सन्दर्भे पाकिस्तान-संबन्धस्य अपि आरोपः कृतः।

सोमवासरे असम-प्रदेश-कांग्रेस-कार्यालये आयोजिते संवाददाता-सम्मेलने डॉ. सरमा उक्तवान् यत् पवन खेड़ा तथा गौरव गोगोई इत्येताभ्यां द्वे समन्विते पत्रकार-सम्मेलने कृते—एकं दिल्ली-नगरे, अपरं गुवाहाटी-नगरे—यत् तयोः मते “कूट-सामग्री” (फर्जी सामग्री) आधारितम् आसीत्। तेन उक्तं यत् एतादृशानां दस्तावेजानां सार्वजनिक-प्रदर्शनं कृत्वा वंचना-लुंठन-सम्बद्धेषु विधिषु गम्भीराः दण्डाः प्रवर्तन्ते, यत्र भारतीय-न्याय-संहिता (BNS) इत्यस्य धाराः अपि प्रवर्तन्ते।

ज्ञातव्यं यत् पवन खेड़ा रविवासरे पत्रकार-सम्मेलने मुख्यमन्त्रिणः भार्यायाः नाम्ना त्रयाणां देशानां पासपोर्टाः, अमेरिका-देशे विशाल-व्यापार-संस्थाया अस्तित्वं च इति गम्भीरान् आरोपान् कृत्वा सामाजिक-माध्यमेषु चित्राणि प्रकाशितवान्। ततः अनन्तरं राज्यस्य राजनीतौ महती हलचल उत्पन्ना। एतत् ज्ञात्वा डॉ. सरमा सामाजिक-माध्यमे (X) लिखित्वा सर्वान् आरोपान् निरस्तवान्, मिथ्या इति च उक्तवान्, तथा पवन खेड़ा विरुद्धं फौजदारी-दीवानी-मुकदमानां आरम्भं भविष्यति इति अवदत्। सः अपि उक्तवान् यत् अस्य विषये पुलिस-मामला अपि पञ्जीकृतः अस्ति।

मुख्यमंत्री उक्तवान् यत् अस्मिन् विषये तस्य दुःखम् अस्ति यत् तरुण गोगोई पुत्रः गौरव गोगोई सत्तालाभाय एतावत् अधः पतितः। सः अपि उक्तवान् यत् एषः विषयः अधिकं गम्भीरः भवति यतः गौरव गोगोई पाकिस्तान-समर्थनेन एतान् मिथ्या-आरोपान् प्रचारितवान्। एतत् देशद्रोहस्य श्रेण्यां गण्यते इति तेन उक्तम्। पुलिस विभागः अस्य प्रकरणस्य अन्वेषणं करोति। पवन खेड़ा कृतस्य अपराधस्य कृते आजीवन-कारावासः सम्भवति इति अपि तेन उक्तम्।

सः अपि अवदत् यत् यदा निर्वाचन-फलान् प्रभावितुं मनगढ़ित-दस्तावेजाः प्रयुज्यन्ते तदा अपराधस्य गम्भीरता वर्धते, यस्य दण्डः आजीवन-कारावासः अपि भवितुं शक्नोति। डॉ. सरमा उक्तवान् यत् एषः विषयः केवलं राजनैतिकः नास्ति, किन्तु विधिक-परिणामान् अपि वहति।

मुख्यमन्त्रिणः भार्या रिनिकी भुइयां सरमा अपि अस्य विषयस्य सम्बन्धे प्राथमिकी (FIR) पञ्जीकृतवती। सः विश्वासं व्यक्तवान् यत् पुलिस विभागः एतानां दावानां दस्तावेजानां च मूल-स्रोतं सूक्ष्मतया परीक्षिष्यति।

अन्यं गम्भीरम् आरोपं कुर्वन् डॉ. सरमा उक्तवान् यत् खेड़ा-कृत-प्रेस-सम्मेलनस्य सामग्री पाकिस्तानी-सामाजिक-माध्यम-तन्त्रेण सम्बद्धा आसीत्। सः उक्तवान् यत् गत-दशदिनेषु पाकिस्तानीपटलैः असम-निर्वाचन-विषये असामान्य-चर्चाः प्रसारिताः, याः पूर्वं कदापि न दृष्टाः, तथा तासु चर्चासु कांग्रेस-पक्षे निरन्तरं कथानकं प्रस्तूयते इति आरोपः कृतः।

स्वीयान् आरोपान् विस्तरयन् डॉ. सरमा उक्तवान् यत् असम-भाजपया “GauravElizabeth786” इति नाम्ना एकः कृत्रिम-संस्थान-रूपः निर्मितः, येन दर्श्यते यत् जाल-आधारिताः मिथ्या-संस्थानाः वा डिजिटल-अभिलेखाः कथं सुलभतया निर्मातुं शक्यन्ते। तेन उक्तं यत् एतादृशः प्रयोगः भ्रामक-सूचनानां निर्माणे प्रयुक्तानां उपायानां उद्घाटनं करोति, ये सार्वजनिक-मञ्चेषु यथा Google इत्यादिषु शीघ्रं दृश्यन्ते।

हिन्दुस्थान समाचार