Enter your Email Address to subscribe to our newsletters

जयपुरम्, 06 अप्रैलमासः (हि.स.)।
भारतीयजनता(भाजपा) इति दलं सोमवासरे स्वस्य सप्तचत्वारिंशत्तमं स्थापना-दिवसम् अत्युत्साहेन गौरवेण च आचरितवान्। राजधानी जयपुर-नगरे स्थिते प्रदेश-भाजपा-कार्यालये मुख्यमंत्री भजनलाल शर्मा तथा प्रदेशाध्यक्षः मदन राठौड़ इत्येताभ्यां दल-ध्वजः आरोहितः, कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरे वरिष्ठ-नेतारः, विविध-मोर्चानां पदाधिकारीणः, बहुसंख्यकाः कार्यकर्तारः च उपस्थिताः आसन्।
मुख्यमंत्री भजनलाल शर्मा स्वस्य निजी-निवासे ‘बालाजी टॉवर’ इत्यत्र अपि कुटुम्बेन सह ध्वजारोहणं कृत्वा ‘सेवा एव संकल्पः’ इति सन्देशं प्रदत्तवान्। तेन सामाजिक-माध्यमेन प्रदेशस्य सर्वेभ्यः कार्यकर्तृभ्यः शुभाशयाः प्रेषिताः, उक्तं च यत् भाजपा अद्य कार्यकर्तृणां समर्पणेन तथा संगठनात्मक-निष्ठया विश्वस्य महानतमः राजनीतिक-दलः अभवत्। तेन ‘अन्त्योदयः अस्माकं प्रणः, राष्ट्रं प्रथमं अस्माकं संकल्पः’ इति सिद्धान्तः पुनरुक्तः, विकास-पथे निरन्तरं अग्रे गन्तुं आह्वानं कृतम्।
तेन सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लिखितम् यत्—भारतीयजनता-पार्टी-स्थापना-दिवसस्य पावन-अवसरे अद्य प्रदेश-भाजपा-कार्यालये दल-ध्वजः आरोहितः। एषः गौरवमयः अवसरः राष्ट्र-सेवा, सुशासनं, अन्त्योदयः च प्रति अस्माकं प्रतिबद्धतां पुनः सुदृढीकर्तुं प्रतीकः अस्ति। सप्तचत्वारिंशत् वर्षपूर्वं आरब्धायां अस्यां यात्रायां कार्यकर्तृणां अथक-परिश्रमः, अनुशासनं, सांगठनिक-निष्ठा च एव भाजपा-दलं अद्य विश्वस्य महानतमं राजनीतिक-संगठनं कृतवन्ति। अस्मिन् अवसरे प्रदेशाध्यक्षेन मदन राठौड़ेन, दल-पदाधिकारीभिः, कर्मठ-कार्यकर्तृभिः सह ध्वजारोहण-कार्यक्रमे सहभागित्वं कृत्वा संगठनस्य सुदृढीकरणस्य संकल्पः कृतः। भाजपा-दलस्य सर्वेभ्यः समर्पित-कार्यकर्तृभ्यः स्थापना-दिवसस्य हार्दिकाः शुभकामनाः प्रेषिताः।
पूर्व-मुख्यमन्त्री वसुन्धरा राजे अपि स्थापना-दिवसे भावपूर्णं सन्देशं प्रेषितवती। तया श्यामा प्रसाद मुखर्जी, दीनदयाल उपाध्याय, विजयाराजे सिंधिया इत्यादीनां महापुरुषाणां प्रति नमनं कृतम्, उक्तं च यत् तेषां विचारधारा तथा बलिदानम् एव भाजपा-दलस्य दृढा आधारशिला अस्ति। सा अटल बिहारी वाजपेयी तथा लालकृष्ण आडवाणी इत्येतयोः विरासतां संगठनस्य प्रेरणा इति अपि अभ्यधात्।
ध्वजारोहण-कार्यक्रमे प्रदेशाध्यक्षः मदन राठौड़ कार्यकर्तॄन् सम्बोधितवान् यत् भाजपा-दलस्य प्रत्येकं पदं समाजस्य अन्तिम-पुरुषं प्रति विकासं प्रापयितुं उद्दिश्य क्रियते। तेन ‘लक्ष्यम् अन्त्योदयः, पन्थाः अन्त्योदयः’ इति मन्त्रेण सर्वान् कार्यकर्तॄन् जनसेवायां समर्पितान् भवितुं आह्वानं कृतम्।
अस्मिन् अवसरे भाजपा-प्रधान-कार्यालये ‘मिशन 2026-28’ इत्यस्य अपि दृश्यं दृष्टम्। कार्यकर्तृषु उत्साहः ऊर्जा च दृश्येते स्म, येन ज्ञायते यत् दलम् आगामि-राजनीतिक-परिस्थितिषु पूर्णतया सज्जम् अस्ति। राजधानी जयपुर-सहितं प्रदेशस्य सर्वेषु जिलेषु, मण्डलेषु, मतदानकेंद्र-स्तरेषु च स्थापना-दिवस-कार्यक्रमाः आयोजिताः। कार्यकर्तारः ‘कमल-सन्देश’ इत्यस्य माध्यमेन गृहे गृहे गत्वा केन्द्र-राज्य-सर्वकारयोः योजनानां सूचना: जनसामान्यं प्रति प्रेषितवन्तः।
---------------
हिन्दुस्थान समाचार