Enter your Email Address to subscribe to our newsletters

रायपुरम् 06 अप्रैलमासः (हि.स.)।
छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे प्रातः ११ वादने भाजपा प्रदेश कार्यालये कुशाभाऊ ठाकरे परिसरमध्ये भाजपा स्थापना दिवसस्य अवसरे ध्वजारोहणं करिष्यति।
भाजपा प्रदेश कार्यालयमन्त्री अशोक बजाजः अवदत् यत् अद्य ६ अप्रैल तिथौ भाजपा स्थापना दिवस कार्यक्रमे प्रदेशपदाधिकारी कार्यकर्तारश्च सर्वेषु जिल्लासु ध्वजारोहणकार्यक्रमेषु सहभागिनो भविष्यन्ति।
भाजपा कार्यालयस्य एकात्म परिसरमध्ये रायपुरनगरस्य जिलाध्यक्षः रमेशसिंहठाकुरः ध्वजारोहणं करिष्यति।
तथा सायं ५ वादने एकात्म परिसरमध्ये कार्यकर्तृसम्मेलनम् आयोजितम् अस्ति। अस्मिन् सम्मेलने मुख्यमन्त्री विष्णुदेवसायः कार्यकर्तॄन् संबोधितुं करिष्यति।
हिन्दुस्थान समाचार