Enter your Email Address to subscribe to our newsletters

जयपुरम्, ०६ अप्रैलमासः (हि.स.)। विश्व-संवाद-केन्द्रेण जयपुर-नगरे प्रतिवर्षं आयोज्यमानस्य देवर्षि-नारद-पत्रकारिता-सम्मानम् २०२६ इत्यस्य कृते अस्मिन् वर्षे अपि प्रविष्टयः आमन्त्रिताः। एतत् सम्मानं पत्रकारिता-क्षेत्रे उत्कृष्ट-समाजहितकारी-कार्याणि कृतवन्तः चयनित-पत्रकारेभ्यः देवर्षि-नारद-जयन्त्याः अवसरे आयोजिते भव्य-समारोहे प्रदास्यते।
विश्व-संवाद-केन्द्रस्य निदेशकः डॉ.ईश्वर-बैरागी अवदत् यत् एतत् सम्मानं प्रान्त-स्तरीयं भविष्यति, यस्मिन् मुद्रित-माध्यम, इलेक्ट्रॉनिक-माध्यम तथा न्यू-मीडिया (डिजिटल/सोशल-मीडिया) सम्बद्धाः पत्रकाराः भागं ग्रहीतुं शक्नुवन्ति। इच्छुकाः पत्रकाराः निर्दिष्ट-अन्तर्जाल-सम्बन्धेन स्वीयाः प्रविष्टयः प्रेषयितुं शक्नुवन्ति। पुरस्काराय तानि एव कार्याणि मान्यानि भविष्यन्ति, यानि १ अप्रैलमासः २०२५ तः ३१ मार्चमासः २०२६ पर्यन्तं कृतानि स्युः। आवेदकस्य कार्यक्षेत्रं जयपुर-प्रान्तस्य अन्तर्गत-जनपदेषु—सीकर-चूरू-झुंझुनूं-अलवर-खैरथलतिजारा-कोटपूतलीबहरोड़-भरतपुर-डीग-धौलपुर-करौली-सवाईमाधोपुर-दौसा-टोंक-जयपुर—मध्ये भवेत्।
आवेदनकाले पत्रकारैः स्वकीययोः द्वयोः श्रेष्ठयोः मौलिकयोः कार्ययोः विवरणं दातव्यम्, यौ देश-समाजयोः सम्बन्धिनौ स्तः। तदर्थं पत्र-कर्तनम्, विडियो-सम्बन्धः अथवा अन्य-प्रमाणं दातव्यम् अनिवार्यम्। समाचारः अथवा कथा आवेदकस्य बायलाइन-रूपेण प्रकाशितः स्यात् अथवा सम्पादकेन प्रमाणितः भवेत्। आवेदनस्य अन्तिम-तिथिः २२ अप्रैल २०२६ निर्धारिता अस्ति।
पत्रकारिता-विद्यार्थिनां कृते विशेषः अवसरः
देवर्षि-नारद-जयन्त्याः उपलक्ष्ये पत्रकारिता-विद्यार्थिनां कृते लेखन-प्रतियोगितायाः अपि आयोजनं क्रियते। अस्यां प्रतियोगितायां पञ्च विषयेषु—“भारतस्य समृद्धेः मार्गः: स्वदेशी-उपयोगः”, “पर्यावरणपरक-भारतीय-जीवन-शैली”, “समरस-समाज-निर्माणे मीडियायाः भूमिका”, “परिवर्तमान-सामाजिक-परिवेशे संयुक्त-कुटुम्बस्य महत्त्वम्” तथा “युवा तथा पञ्च-परिवर्तनम्”—लेखाः आमन्त्रिताः।
प्रत्येकस्मिन् विषये एकः श्रेष्ठ-लेखः नकद-पुरस्कारं प्राप्स्यति, एवं आहत्य पञ्च लेखाः पुरस्कृताः भविष्यन्ति। अन्ये चयनित-प्रतिभागिनः प्रमाणपत्राणि अपि प्राप्स्यन्ति। प्रतियोगितायां प्रत्येकं प्रतिभागी केवलम् एकस्मिन् विषये एव स्वलेखं प्रेषयितुं शक्नोति। छात्राः स्वलेखान् २५ अप्रैलमास २०२६ पर्यन्तं निर्दिष्ट-ईमेल-माध्यमेन स्वीय-विवरणेन सह प्रेषयितुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता