Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 अप्रैलमासः (हि.स)।
भारतदेशेन वित्तीयवर्षे 2025-26 मध्ये पवनऊर्जा-क्षेत्रे अद्यावधि सर्वाधिक वार्षिक-क्षमतावृद्धिः अभिलेखिता अस्ति। अस्मिन् अवधौ भारतदेशः 6.05 गीगावाट् नूतनक्षमतां योजितवान्, येन देशस्य समग्र स्थापित-पवनऊर्जा-क्षमता 56 गीगावाट् अधिका अभवत्। एषा वृद्धि वित्तीयवर्षे 2016-17 मध्ये अभिलिखितं 5.5 गीगावाट् क्षमतावृद्धेः ऐतिहासिकं अभिलेखं अपि अतिक्रान्तवती अस्ति।
नवीन-नवीकरणीय-ऊर्जा-मन्त्रालयस्य अनुसारं गतवित्तीयवर्षस्य 2024-25 तुलनया प्रायः 46 प्रतिशतवृद्धिः अभवत्, या गुजरात-राजस्थान-कर्नाटक-प्रदेशेषु प्रमुख-परियोजनाभिः संचालिताऽस्ति। एषा उपलब्धिः नीतिगत-स्पष्टतायाः उन्नतिः, पारेषण-सज्जता, प्रतिस्पर्धात्मक-शुल्कनिर्धारणम्, परियोजनानां सुदृढ-उपलब्धता च कारणतया अस्मिन् क्षेत्रे आगतां नवगत्याः द्योतकः अस्ति।
एषा महत्वपूर्णा उपलब्धिः निरन्तर-नीतिगत-समर्थनम्, उत्तम-परियोजना-क्रियान्वयनम्, प्रमुख-पवनऊर्जा-उत्पादक-राज्येषु परियोजनानां वर्धमान-परिपक्वता च परिणामः अस्ति।
मन्त्रालयेन उक्तं यत् एषा अभिलेखीय-वृद्धिः देशस्य नवीकरणीय-ऊर्जा-पोर्टफोलियो महत्वपूर्णतया सुदृढं करोति। अस्य फलतः वर्ष 2030 पर्यन्तं 500 गीगावाट् अजीवाश्म-ईंधन-आधारित-ऊर्जा-क्षमता-राष्ट्रिय-लक्ष्यस्य प्राप्तौ योगदानं भवति।
मन्त्रालयेन उक्तं यत् देशस्य पवनऊर्जा-कार्यक्रमः 1990-दशकस्य आरम्भे शासनस्य व्यापक-नवीकरणीय-ऊर्जा-रणनीत्याः अंशरूपेण आरब्धः आसीत्। गतत्रिंशत्-वर्षेषु देशेन ग्रिड्-संबद्ध-पवनऊर्जा-परियोजनानां प्रवर्धनार्थं सुदृढं पवनऊर्जा-परिसंस्थानं तथा सुदृढं नीतिगतदृढं विकसितम् अस्ति।
हिन्दुस्थान समाचार