भारतीय-राजदूतेन नेपालस्य विदेशमन्त्रिणा सह द्विपक्षीय-सहयोगे चर्चा कृता
काठमाण्डूनगरम्, ०६ अप्रैलमासः (हि.स.) – नेपालदेशे भारतस्य राजदूतः नवीन-श्रीवास्तवः सोमवासरे विदेशमन्त्रिणा शिशिर-खनालेन सह शिष्टाचार-साक्षात्कारं कृतवान्। सिंहदरबारस्थिते विदेशमन्त्रालये जाते अस्मिन् साक्षात्कारे राजदूतः श्रीवास्तवः भारतस्य विदेशमन
नेपाल के विदेश मंत्री से मुलाकात


काठमाण्डूनगरम्, ०६ अप्रैलमासः (हि.स.) – नेपालदेशे भारतस्य राजदूतः नवीन-श्रीवास्तवः सोमवासरे विदेशमन्त्रिणा शिशिर-खनालेन सह शिष्टाचार-साक्षात्कारं कृतवान्। सिंहदरबारस्थिते विदेशमन्त्रालये जाते अस्मिन् साक्षात्कारे राजदूतः श्रीवास्तवः भारतस्य विदेशमन्त्रिणः डॉ.एस.जयशङ्करस्य पक्षतः मन्त्रिणे खनालाय अभिनन्दन-शुभकामना-सन्देशं समर्पितवान्।

नूतन-सर्वकारस्य गठनानन्तरं भारतपक्षतः उच्चस्तरीया एषः महत्त्वपूर्णः साक्षात्कारः इति मन्यते। सभायां नेपाल-भारतयोः शताब्दी-पुरातन-सम्बन्धान् अधिकं सुदृढीकरणाय तथा द्विपक्षीय-हितैः सम्बद्धेषु विविधेषु विषयेषु गहन-चर्चा अभवत्। विदेशमन्त्रालयेन उक्तं यत् विशेषतया संयोजकता (कनेक्टिविटी), ऊर्जा-वाणिज्यं तथा लम्बित-विकास-परियोजनानां विषये संक्षिप्ता वार्ता कृता। राजदूतः श्रीवास्तवः नेपालस्य विकास-प्रयासेषु भारतस्य निरन्तर-सहयोगस्य प्रतिबद्धतां पुनरपि व्यक्तवान्।

विदेशमन्त्रालयेन सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र लिखितं यत् राजदूतः श्रीवास्तवः मन्त्रिणं खनालं पदभार-ग्रहणस्य अभिनन्दनं कृत्वा नेपाल-भारत-सम्बन्धानां पारस्परिक-सहयोगस्य च विविधेषु पक्षेषु चर्चां कृतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता