मध्यप्रदेशे एनएसजी-द्वारा समग्र-क्षमता-निर्माण-प्रशिक्षणं तथा प्रदर्शनम् अद्य भोपाल-नगरे, मुख्यमन्त्रिणः उपस्थितौ आयोजनं भविष्यति
भोपालनगरम्, ०६ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाल-नगरे राष्ट्रीय-सुरक्षा-गार्ड (एनएसजी) इत्यस्य तत्त्वावधाने “समग्र-क्षमता-निर्माण-प्रशिक्षणं तथा प्रदर्शनम्” इत्यस्य आयोजनम् अद्य सोमवासरे प्रातः ०९:०० वादने भोपालस्य लाल-परेड-प्राङ्ग
पुलिस मुख्यालय


भोपालनगरम्, ०६ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाल-नगरे राष्ट्रीय-सुरक्षा-गार्ड (एनएसजी) इत्यस्य तत्त्वावधाने “समग्र-क्षमता-निर्माण-प्रशिक्षणं तथा प्रदर्शनम्” इत्यस्य आयोजनम् अद्य सोमवासरे प्रातः ०९:०० वादने भोपालस्य लाल-परेड-प्राङ्गणम् इत्यत्र करिष्यते। कार्यक्रमे मुख्यमन्त्री डॉ.मोहन-यादवः मुख्यातिथिरूपेण सम्मिलितः भविष्यति।

आरक्षक-मुख्यालयेन प्रदत्त-सूचनानुसारं कार्यक्रमे राष्ट्रीय-सुरक्षा-गार्ड-द्वारा विविधाः आधुनिक-सुरक्षा-प्रविधयः प्रदर्क्ष्यन्ते। तासु एमआई-१७ हेलिकॉप्टर-द्वारा स्लिथरिङ्ग्, भवन-प्रवेश-प्रविधिः, हाउस-इण्टरवेन्शन्, वीआईपी-सुरक्षा, क्राव-मागा (UAC), K-9 डॉग-स्क्वाड्-द्वारा आईईडी-परिचयः, बम-निष्क्रियकरणम्, एण्टि-ड्रोन तथा अण्डर-वॉटर-डाइविङ्ग्-प्रदर्शनम् अन्तर्भवन्ति। कार्यक्रमे आरक्षक-महानिदेशकः कैलाश-मकवाणा, एनएसजी-महानिदेशकेन सह अन्ये वरिष्ठ-अधिकारिणः अपि उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता