आत्मसमर्पणेन पुनर्वासं यावत्-पवन कुमारो हिंसायाः मार्गं विहाय जीवनस्य नूतनारम्भो विहितः
-विशेष आवास परियोजनया मिलितं दृढं भवनम् रायपुरम्, 06 अप्रैलमासः (हि.स.)।छत्तीसगढ-राज्य-शासनं माओवादी-आत्मसमर्पितानां कृते पञ्च-लक्ष-पर्यन्तं आर्थिक-सहाय्यं, कौशल-प्रशिक्षणं तथा सम्मानजनक-जीवनस्य अवसरं प्रदाय नक्सल-मुक्त-बस्तरस्य स्वप्नं साकारं कर
फरसगांव के सुदेर पंचायत चिंगनार के  पवन कुमार


-विशेष आवास परियोजनया मिलितं दृढं भवनम्

रायपुरम्, 06 अप्रैलमासः (हि.स.)।छत्तीसगढ-राज्य-शासनं माओवादी-आत्मसमर्पितानां कृते पञ्च-लक्ष-पर्यन्तं आर्थिक-सहाय्यं, कौशल-प्रशिक्षणं तथा सम्मानजनक-जीवनस्य अवसरं प्रदाय नक्सल-मुक्त-बस्तरस्य स्वप्नं साकारं करोति। कोण्डागांव-जिलस्य फरसगांव-क्षेत्रस्य सुदेर-पञ्चायतस्य चिंगनार-ग्रामे निवासी पवन-कुमारः पुनर्वास-नीत्याः अन्तर्गतं पक्का-गृह-प्राप्त्या स्वजीवने सकारात्मक-परिवर्तनं अनुभूतवान्।

कोण्डागांव-जनपदस्य विकासखण्ड-फरसगांव-अन्तर्गतं दूरस्थे ग्राम-पञ्चायत-चिंगनार-नामके ग्रामे, यत् मुख्यालयात् प्रायः ४५ किलोमीटर-दूरे स्थितम् अस्ति, पूर्वं माओवादी-प्रभावेन भय-आसुरक्षा-परिस्थितिः आसीत्। अधुना तु एतेषु क्षेत्रेषु राज्य-शासनस्य पुनर्वास-नीत्याः प्रभावेण शान्तिः विकासश्च प्रतिष्ठितौ स्तः। अस्मिन् एव ग्रामे वसन् पवन-कुमारः पुनर्वास-नीत्याः अन्तर्गतं पक्का-गृहं प्राप्तवान्, येन तस्य जीवने सकारात्मक-परिवर्तनं जातम्।

पवन-कुमारः पूर्वं माओवादी-सङ्गठने संलग्नः आसीत्। तस्मिन् काले तस्य जीवनं असुरक्षितं कष्टपूर्णं च आसीत्। तस्य परिवारः अरण्य-समीपे स्थितायां झोपड्यां जीर्ण-कच्च-गृहे च वसति स्म, यत्र न पर्याप्त-सुविधाः आसन्, न च सुरक्षित-भविष्यस्य काचित् आशा आसीत्।

कालान्तरात् सः अवगतम् अकरोत् यत् हिंसा-पन्थाः केवलं विनाशस्य दिशि नयति। शासनस्य आत्मसमर्पण-पुनर्वास-नीत्याः प्रेरणया सः साहसं कृत्वा माओवादी-सङ्गठनात् सम्बन्धं विच्छिद्य समाजस्य मुख्य-धारायां पुनरागमनस्य निर्णयं कृतवान्। अयं निर्णयः तस्य जीवनस्य अत्यन्तं महत्त्वपूर्णः मोडः अभवत्।

शासन-प्रदत्त-सूचनायाः अनुसारं आत्मसमर्पणानन्तरं जिला-प्रशासनद्वारा विशेष-परियोजना-आवासः (आत्मसमर्पित-परिवार) प्रधानमंत्री-आवास-योजना-ग्रामीण-अन्तर्गतं वर्षे २०२४–२५ तस्मै स्वीकृतः। शासनस्य साहाय्येन तस्मै क्रमशः आर्थिक-सहाय्यं प्रदत्तम्—प्रथम-किश्ते ४०,००० रूप्यकाणि, द्वितीय-किश्ते ५५,००० रूप्यकाणि, अन्तिम-किश्ते २५,००० रूप्यकाणि च। ततः अतिरिक्तं महात्मा-गान्धी-राष्ट्रिय-ग्रामीण-रोजगार-गारंटी-योजना (मनरेगा) अन्तर्गतं ९० दिवसानां श्रम-वेतनम् अपि प्रदत्तम्। एतासां समस्त-सहाय्यानां सम्यक् उपयोगेन पवन-कुमारः नियत-समये स्वस्य पक्का-गृहं पूर्णं कृतवान्। एतत् गृहं केवलं निवास-स्थानं न, अपि तु तस्य नूतन-जीवनस्य दृढ-आधारः अस्ति।

अधुना तस्य परिवारः सुरक्षित-परिसरे वसति तथा भविष्ये विषये आश्वस्तः अस्ति। अतिरिक्ततया शासनद्वारा तस्य गृहे विद्युत्-संयोजनम्, रसोवतीअनिलकोषः, शौचालयः, नल-जल-व्यवस्था च प्रदत्ता। एताभिः सुविधाभिः तस्य जीवन-स्तरः उल्लेखनीयतया उन्नतः अभवत् तथा तस्मै सम्मानजनक-जीवनस्य अवसरः प्राप्तः।

अद्य पवन-कुमारः स्व-परिवारेण सह शान्तिपूर्णं सुरक्षितं सुखमयं च जीवनं यापयति तथा उत्तम-भविष्यस्य कृते नूतन-आशाभिः सह अग्रे गच्छति। सः शासन-प्रशासनस्य अस्य उपक्रमस्य प्रति कृतज्ञतां व्यक्त्वा प्रधानमन्त्री तथा मुख्यमन्त्री प्रति धन्यवादं व्यक्तवान्।

हिन्दुस्थान समाचार