भाजपा स्थापना दिवसे केंद्रीय मंत्री धर्मेंद्र प्रधानः कार्यकर्तृभ्यो दत्तवान् शुभकामनाः
भुवनेश्वरम्, 06 अप्रैलमासः (हि.स.)। केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान भारतीय जनतादलस्य स्थापना दिवसस्य अवसरे सर्वेभ्यः समर्पितेभ्यः कार्यकर्तृभ्यः हार्दिकाः शुभाशयाः अदात्। सामाजिक माध्यमेषु प्रकाशिते स्वसंदेशे सः उक्तवान् यत् भारतीय जनत
धर्मेन्द्र  प्रधान


भुवनेश्वरम्, 06 अप्रैलमासः (हि.स.)।

केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान भारतीय जनतादलस्य स्थापना दिवसस्य अवसरे सर्वेभ्यः समर्पितेभ्यः कार्यकर्तृभ्यः हार्दिकाः शुभाशयाः अदात्।

सामाजिक माध्यमेषु प्रकाशिते स्वसंदेशे सः उक्तवान् यत् भारतीय जनता पार्टीस्य स्थापना दिवसः तेषां महानां तपस्विनां राष्ट्रनिष्ठानां नेतृणां च नमस्कारस्य अवसरः अस्ति, येषां सेवासमर्पणसिद्धान्ताधारेण एषः संगठनः जनआस्थायाः प्रतीकत्वेन प्रतिष्ठापितः।

सः अवदत् यत् ग्रामे ग्रामे पर्यन्तं पार्टीस्य विचारधारां प्रसारयन्तः कर्मठाः कार्यकर्तारः येषां त्यागः परिश्रमश्च अस्ति, तदेव भाजपायाः वास्तविक शक्ति अस्ति।

प्रधानः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनो मार्गदर्शनेन दलस्य कोटिशः कार्यकर्तारः अन्त्योदयस्य मन्त्रेण सह समाजस्य प्रत्येकस्य वर्गस्य उत्थानाय समर्पिताः सन्ति तथा विकसित भारतस्य निर्माणे सक्रियं योगदानं कुर्वन्ति।

सः कार्यकर्तृभ्यः आह्वानं कृतवान् यत् ते एतस्यैव समर्पणभावनया सेवाभावनया च राष्ट्रनिर्माणस्य संकल्पं अग्रे नयन्तु।

---------------

हिन्दुस्थान समाचार