Enter your Email Address to subscribe to our newsletters

पुडुचेरी, 06 अप्रैलमासः (हि.स.)। पुडुचेरी विधानसभायाः निर्वाचनम् अन्तिमचरणम् प्राप्तम् अस्ति। अस्मिन् समये कांग्रेसदलस्य नेता सांसदः राहुलगान्धी अत्र जनसभायां भागं गृहीत्वा अनेकानि महत्त्वपूर्णानि घोषणानि अकुरुत। सः अवदत् यत् बेरोजगारयुवभ्यः प्रतिमासं द्विसहस्ररूप्यकाणि दास्यन्ति तथा च महिलाभ्यः सर्वकारी बससेवायां निःशुल्कयात्रा प्रदास्यते।
नवम्यां तिथौ भविष्यतः निर्वाचनस्य दृष्ट्या प्रचारार्थं कांग्रेसदलस्य नेता राहुलगान्धी प्रियङ्का गान्धी च षष्ठ्यां तिथौ तमिलनाडुं प्राप्तवन्तौ। तौ दिल्लीनगरात् चेन्नैनगरं गतवन्तौ, ततः हेलीकॉप्टरयानद्वारा पुडुचेरीं प्राप्तवन्तौ।
पुडुचेरीस्थे लॉस्पेटप्रदेशे जनसभां संबोधयन् राहुलगान्धी अवदत् यत् पुडुचेरीमध्ये महिलाभ्यः निःशुल्कबससेवा प्रदास्यते। सः अपि उक्तवान् यत् पुडुचेरीं पूर्णराज्यत्वं दातुं कांग्रेसदलम् प्रतिबद्धम् अस्ति। सः अवदत् यत् सरकारीनियुक्तीनां कृते आयुःसीमा चत्वारिंशत् वर्षपर्यन्तं वर्धिता भविष्यति। प्रत्येकपरिवाराय विंशतिलक्षरूप्यकपर्यन्तं स्वास्थ्यबीमा प्रदास्यते तथा च कांग्रेससरकारस्य निर्माणात् षण्मासाभ्यन्तरे स्थानीयनिकायनिर्वाचनानि आयोज्यन्ते।
सः अपि अवदत् यत् पुडुचेरीमध्ये सरकारी तथा निजीक्षेत्रयोः रोजगारावसराः वर्धयिष्यन्ते। वयं बेरोजगारयुवभ्यः प्रतिमासं द्विसहस्ररूप्यकाणि दास्यामः।
राहुलगान्धी आरोपं कृतवान् यत् कृत्रिमौषधीनां विषये केन्द्रशासितप्रदेशस्य सरकारेण कापि कार्यवाही न कृता। सः अपि उक्तवान् यत् विद्यालयानां समीपे मद्यदुकानानि उद्घाट्यन्ते तथा च मन्दिराणां भूमिः विक्रयते।
अधुना निर्वाचनस्य केवलं त्रयः दिवसाः अवशिष्टाः सन्ति, सर्वे राजनैतिकदलानां नेतारः उत्साहेन प्रचारकार्ये संलग्नाः सन्ति।
---------------
हिन्दुस्थान समाचार