देशे रसवतीअनिलकोषः श्रमिकाणां प्राप्तितःबहिः -राहुल गांधी
नवदिल्ली, 06 अप्रैलमासः (हि.स.)। कांग्रेस-पक्षस्य पूर्वाध्यक्षः लोकसभायां च विपक्ष-नेता राहुलगांधी पश्चिम-एशिया-प्रदेशे वर्तमान-संघर्षस्य समये देशे एलपीजी-अभावस्य विषये सरकारं प्रति आक्षेपं कृतवान्। तेन उक्तं यत् अधुना देशे पाक-गैसः दिहाड़ी-श्रम
कांग्रेस सांसद राहुल गांधी रविवार को बिश्वनाथ में एक जनसभा को संबोधित करते हुए। Rahul Gandhi


नवदिल्ली, 06 अप्रैलमासः (हि.स.)।

कांग्रेस-पक्षस्य पूर्वाध्यक्षः लोकसभायां च विपक्ष-नेता राहुलगांधी पश्चिम-एशिया-प्रदेशे वर्तमान-संघर्षस्य समये देशे एलपीजी-अभावस्य विषये सरकारं प्रति आक्षेपं कृतवान्। तेन उक्तं यत् अधुना देशे पाक-गैसः दिहाड़ी-श्रमिकाणां प्राप्तितो बहिः गतः अस्ति।

सोमवासरे X माध्यमेन सः सरकारं प्रति आरोपं कृतवान् यत् एलपीजी-संकटं कोविड-19 महामारीवत् उपेक्षितम्। नीति-शून्यता, विशाल-घोषणाः, सर्वः भारः च दरिद्रेषु निहितः इति तेन उक्तम्। 500-800 रूप्यक-पर्यन्तं दिहाड़ीं लभमानानां प्रवासी-श्रमिकाणां कृते पाक-गैसः अधुना अप्राप्यः जातः। रात्रौ गृहम् आगच्छतः श्रमिकस्य समीपे चुल्लिकां प्रज्वालयितुं अपि वित्तं नास्ति। फलतः ते नगरं त्यक्त्वा ग्रामं प्रति प्रतिनिवर्तन्ते।

तेन अपि उक्तं यत् ये श्रमिकाः वस्त्र-उद्योगस्य निर्माणशालायाः च मेरुदण्डः सन्ति, ते अद्य स्वयम् एव दुर्बलाः भवन्ति। वस्त्र-उद्योगः पूर्वमेव गम्भीर-संकटे अस्ति, विनिर्माण-क्षेत्रं च क्षीणतां गच्छति। अयं संकटः कुत्रोत्पन्नः इति प्रश्नं कृत्वा तेन उक्तं यत् अस्य कारणं कूटनीतिक-दोषः अस्ति, यं सरकार अद्यापि न स्वीकृतवती।

अन्ते विपक्ष-नेता प्रश्नं कृतवान्—सर्वेषु संकटेषु प्रथमं दरिद्रः एव कुतः पीड्यते? एषः केवलं दरिद्रस्य न, अपि तु अस्माकं सर्वेषां प्रश्नः अस्ति।

---------------

हिन्दुस्थान समाचार