Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 अप्रैलमासः (हि.स.)।
राज्यसभायाः सभापतिः सीपी राधाकृष्णन् सोमवासरे संसद्-भवने सदनस्य नवदश नवनिर्वाचित-सदस्यान् शपथं ग्रहीतवान्। राष्ट्रवादी-कांग्रेस-पक्षस्य नेता शरद-पवारः, केन्द्रीय-मन्त्री रामदास-अठावले, भाजपा-पक्षस्य रामराव-वडकुटे, माया-इवनाते, ज्योति-वाघमारे च अन्ये च नवनिर्वाचित-सांसदाः शपथं ग्रहीतवन्तः।
अद्य शपथं ग्रहीतवन्तेषु महाराष्ट्र-राज्यात् रामदास-बन्दू-अठावले, माया-चिन्तामन-इवनाते, शरदचन्द्र-पवारः, रामराव-सखाराम-वडकुटे, डॉ. ज्योति-नागनाथ-वाघमारे च सन्ति।
तमिलनाडु-राज्यात् क्रिस्टोफर-मणिक्कम्, डॉ. अंबुमणि-रामदासः, कॉन्स्टेंडाइन-रविन्द्रनः, एल. के. सुधीशः, डॉ. एम. थंबीदुरै, तिरुची-शिवा च शपथ-ग्रहणं कृतवन्तः।
पश्चिम-बंगाल-राज्यात् बाबुल-सुप्रियो-बरालः, डॉ. मेनका-गुरुस्वामी, राजीव-कुमारः, रुक्मिणी-मल्लिक, बिस्वजीत-सिन्हा च शपथं ग्रहीतवन्तः।
ओडिशा-राज्यात् राज्यसभा-सदस्यत्वेन संतृप्त-मिश्रः, दिलीप-कुमार-रे, मनमोहन-सामल च शपथं ग्रहीतवन्तः।
---------------
हिन्दुस्थान समाचार