Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अप्रैलमासः (हि.स.)। भारतीयजनता-पक्षः (भाजपा) अद्य स्वस्य स्थापना-दिवसं आचरति। भाजपा तथा वरिष्ठ-पक्ष-नेता केन्द्रीय-गृह-सहकारितामन्त्री अमित-शाहः कार्यकर्तृभ्यः देशवासिभ्यश्च पक्षस्य स्थापना-दिवस-अवसरे शुभकामनाः दत्तवन्तौ। भाजपया एक्स-इत्यत्र लिखितम्— “राष्ट्रं प्रथमम्, अन्त्योदयस्य सङ्कल्पः तथा सेवा एव संगठनस्य मूलमन्त्रः” इत्यस्य आधारेण चलतः विश्वस्य बृहत्तमस्य राजनैतिक-दलस्य भारतीयजनता-पक्षस्य स्थापना-दिवस-अवसरे सर्वेभ्यः कार्यकर्तृभ्यः देशवासिभ्यश्च हार्दिकाः शुभकामनाः।
केन्द्रीय-गृहमन्त्री अमित-शाहः अपि सर्वेभ्यः कार्यकर्तृभ्यः भाजपा-स्थापना-दिवसस्य शुभकामनाः दत्तवान्। तेन व्हाट्स-ऐप-सन्देशे लिखितम्— “डॉ. श्यामा-प्रसाद-मुखर्जी तथा पण्डित-दीनदयाल-उपाध्याययोः राष्ट्रवादी-चिन्तनात् वैचारिक-प्रेरणया च निर्मितस्य भारतीयजनता-पक्षस्य स्थापना केवलं राजनैतिक-घटना नासीत्, अपि तु राष्ट्र-पुनर्निर्माणस्य सङ्कल्पः आसीत्। अन्तिम-पङ्क्तेः कल्याणस्य मूल-भावनया आरब्धः भाजपा मोदी-नेतृत्वे ‘सबका साथ, सबका विकास, सबका विश्वास’ इति मन्त्रं साकारितवती।”
तेन लिखितम्— “भाजपया लोकतन्त्रस्य मूलानि दृढीकृतानि, देशः तुष्टीकरणात् मुक्तः कृतः, सुशासनं पारदर्शिता च स्थापिते। अद्य भाजपापक्षः केवलं पक्षः नास्ति, अपि तु १४० कोटि-देशवासिनां स्वप्नानाम् आकाङ्क्षाणां च प्रतिनिधिः जातः अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता