वर्ल्ड-आर्चरी-पैरा-स्पर्धायां भारतस्य प्रभुत्वम्, १३ पदकैः सह शीर्षस्थाने स्थितम्
नवदिल्ली/बैंकॉकनगरम्, ०६ अप्रैलमासः (हि.स.) – बैंकॉक-नगरे आयोजितायां हुंडई-वर्ल्ड-आर्चरी-पैरा-स्पर्धायां भारतीय-पैरा-धनुर्धरैः उत्कृष्टं प्रदर्शनं कृत्वा आहत्य १३ पदकानि (७ स्वर्णः, ३ रजतम्, ३ कांस्यम्) विजितानि। एतेन भारतं पदक-तालिकायां शीर्षस्थान
भारतीय पैरा तीरंदाज शीतल और पायल नाग


नवदिल्ली/बैंकॉकनगरम्, ०६ अप्रैलमासः (हि.स.) – बैंकॉक-नगरे आयोजितायां हुंडई-वर्ल्ड-आर्चरी-पैरा-स्पर्धायां भारतीय-पैरा-धनुर्धरैः उत्कृष्टं प्रदर्शनं कृत्वा आहत्य १३ पदकानि (७ स्वर्णः, ३ रजतम्, ३ कांस्यम्) विजितानि। एतेन भारतं पदक-तालिकायां शीर्षस्थानं प्राप्तवान्।

द्वाविंशति-सदस्यीयेन भारतीय-दलेन रिकर्वकंपाउंड-तथा-डब्ल्यू-१-वर्गेषु भागं गृहीत्वा स्वस्य कौशलं प्रदर्शितम्। कंपाउंड-वर्गे भारतस्य प्रभुत्वं दृश्यते, यत्र सर्वासु तिसृषु दल-प्रतियोगितासु स्वर्ण-पदकानि जितानि। महिला-दल-प्रतियोगितायां शीतल-देवी तथा पायल-नाग स्वर्णं विजितवत्यौ, पुरुष-दल-प्रतियोगितायां तोमन-कुमारः श्याम-सुन्दर-स्वामी च स्वर्णं प्राप्तवन्तौ। मिश्र-दल-प्रतियोगितायां शीतल-देवी–तोमन-कुमारयोः युग्मेन अपि स्वर्णं प्राप्तम्।

रिकर्व-पुरुष-दल-प्रतियोगितायां विजय-सुण्डी हरविन्दर-सिंहौ स्वर्ण-पदकं विजितवन्तौ। अन्यासु व्यक्तिगत-दल-प्रतियोगितासु अपि भारतीय-क्रीडकैः पदकानि विजितानि। भारतीय-धनुर्विद्या-संघस्य अध्यक्षः अर्जुन-मुण्डा एतां उपलब्धिं ऐतिहासिकीम् इति उक्तवान्। महासचिवः वीरेन्द्र-सचदेवः अपि उक्तवान् यत् एतेन प्रदर्शननेन देशः प्रेरितः अभवत्।

अस्यां स्पर्धायां पायल-नागः उदीयमाना-तारका इव अभवत्, शीतल-देवी च पुनः स्वस्य उत्कृष्टं कौशलं प्रदर्श्य विश्वस्य श्रेष्ठ-क्रीडकेषु स्थानं सुदृढं कृतवती। भारतस्य एतत् प्रदर्शनं वैश्विक-पैरा-धनुर्विद्यायां देशस्य वर्धमानं सामर्थ्यं सूचयति।

हिन्दुस्थान समाचार / अंशु गुप्ता