श्री संकटमोचन मंदिरस्य वार्षिक संगीत समारोहे प्रथम प्रस्तुतिः ‘रूपवाणी’ संस्थायाः नृत्यनाटिका
—103तमे समारोहे 11 पद्मश्री कलाकाराणां भविष्यन्ति प्रस्तुतयः ,षड्त्सु दिनेषु 135 तः अधिक कलाकार हनुमन्मंडपे में करिष्यन्ति संगीत कलायाः प्रदर्शनम् वाराणसी, 06 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां स्थिते श्रीसंकटमोचनमन्दिरे षड्
फोटो प्रतीक


—103तमे समारोहे 11 पद्मश्री कलाकाराणां भविष्यन्ति प्रस्तुतयः ,षड्त्सु दिनेषु 135 तः अधिक कलाकार हनुमन्मंडपे में करिष्यन्ति संगीत कलायाः प्रदर्शनम्

वाराणसी, 06 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां स्थिते श्रीसंकटमोचनमन्दिरे षड्दिवसीयवार्षिकसंगीतसमारोहस्य आरम्भः हनुमद्दर्बारे सोमवासरे सायं ७:३० वादने भविष्यति। अस्य सर्वा तैयारी सम्पन्ना अस्ति। संगीतप्रेमिणः अपि मन्दिरं गत्वा प्रसिद्धकलाकाराणां प्रस्तुतीः श्रोतुं द्रष्टुं च उत्साहिताः सन्ति।

प्रथमदिने दरबारे रूपवाणीसंस्थायाः प्रस्तुति (नृत्यनाटिका), पं राहुलशर्मणः (सन्तूरवादनम्), विधालालस्य (कथकनृत्यम्), एस आकाश-यद्नेशरायकरयोः (बांसुरी-वायलिनवादनम्), पद्मश्रीमालिनीअवस्थ्याः (गायनम्), राहुलमिश्रस्य (तबलासोलो), पं हरविंदरशर्मणः (सितारवादनम्), सुश्री शिखाभट्टाचार्यायाः (कथकनृत्यम्) प्रस्तुतीः भविष्यन्ति।

मन्दिरस्य महन्तः प्रो विश्वम्भरनाथमिश्रः उक्तवान् यत् १०३तमसंगीतसमारोहे षड्दिनेषु १३५ अधिकाः कलाकाराः प्रायः ४५ प्रस्तुतीः दास्यन्ति। अस्मिन् ११ पद्मसम्मानप्राप्तकलाकाराः सन्ति। विशेषता एषा यत् अस्मिन् वर्षे २१ नवकलाकाराः अपि मञ्चे प्रस्तुतेः अवसरं प्राप्स्यन्ति। षड्दिनेषु प्रथमवारं १४ मुस्लिमकलाकाराः अपि स्वसंगीतसाधनां प्रदर्शयिष्यन्ति। सः अवदत् यत् १९२३ वर्षात् आरभ्य प्रतिवर्षं हनुमज्जयंतीउपलक्ष्ये अयं समारोहः आयोज्यते। प्रतिदिनं सायंआरत्याः अनन्तरं ७:३० वादनात् आरभ्य प्रातःकालीनआरत्यन्तं वा तदनन्तरं यावत् कार्यक्रमः प्रवर्तते।

द्वितीयदिने मङ्गलवासरे ग्रैमीपुरस्कारविजेता पद्मश्री पंडितविश्वमोहनभट्टस्य मोहनवीणावादनम्, पं सुनीलभट्टस्य सात्विकवीणावादनम् भविष्यति। तस्मिन्नेव दिने पं रामकुमारमिश्रस्य तबलावादनम्, उस्तादगुलामअब्बासखानस्य गायनम्, उस्तादअकरमखानस्य तबलावादनम् अपि भविष्यति।

तृतीयदिने पंडितउल्हासकसालकरस्य गायनम्, विवेकसुनारस्य बांसुरीवादनम्, पद्मश्रीजसपिंदरनरूलायाः गायनम्, पं देवाशीषभट्टाचार्यस्य गिटारवादनम्, पं आलोकलाहिड़ेः सरोदवादनम् च भविष्यति।

चतुर्थदिने पं यू राजेशस्य मण्डोलिनवादनम् तथा पद्मश्रीअनूपजलोटस्य गायनम् भविष्यति।

पञ्चमदिने पद्मश्रीपं शंभूमहाराजस्य पुत्रः शिष्यश्च पं राममोहनमहाराजः कथकनृत्यं प्रदर्शयिष्यति, पद्मश्रीदेवेन्द्रनारायणमजूमदारस्य सरोदवादनम्, पद्मश्रीरोनूमजूमदारस्य बांसुरीवादनम्, पद्मश्रीकंकणाबनर्जी तथा उस्तादमसकुरअलीखानयोः गायनम्, बिलालखानस्य तबलावादनम् च भविष्यति।

षष्ठे अन्तिमदिने (११ अप्रैल) पं रतिकान्तमहापात्रः तथा तस्य धर्मपत्नी सुजातामहापात्रा ओडिसीनृत्यं प्रस्तुतौ करिष्यतः। अनन्तरं महताबअलीनियाजीस्य सितारवादनम्, कलापिनीकोमकलीयाः गायनम्, सिराजअलीखानस्य सरोदवादनम्, पंडितअभयरुस्तमसपोरिणः शततंत्रीवीणावादनम्, पंडितअंजूसहायस्य तबलावादनम् च भविष्यति। ततः परं उस्तादशाकिरखानस्य (सितारवादनम्), पं साजनमिश्र-स्वरांशमिश्रयोः (गायनम्) अन्तिमप्रस्तुति भविष्यति।

हिन्दुस्थान समाचार