पश्चिम-एशिया-युद्धं निरोद्धुं शक्ति: केवलं भारत-रूस-चीन-देशानां समीपे : अमेरिकी-अर्थशास्त्री
मास्कोनगरम्, ०६ अप्रैलमासः (हि.स.) – अमेरिकी-अर्थशास्त्री तथा कोलम्बिया-विश्वविद्यालयस्य सेंटर-फॉर-सस्टेनेबल-डेवलपमेंट-निदेशकः प्रो.जेफरी-सैक्सः उक्तवान् यत् ईरान-विषये वर्धमानां समस्यां निरोद्धुं क्षमता केवलं त्रयाणां वैश्विक-नेतॄणां— भारतस्य प्रध
आरटी द्वारा प्रसारित कार्यक्रम 'न्यू ऑर्डर' में अमेरिकी अर्थशास्त्री जेफरी सैस आरटी


मास्कोनगरम्, ०६ अप्रैलमासः (हि.स.) – अमेरिकी-अर्थशास्त्री तथा कोलम्बिया-विश्वविद्यालयस्य सेंटर-फॉर-सस्टेनेबल-डेवलपमेंट-निदेशकः प्रो.जेफरी-सैक्सः उक्तवान् यत् ईरान-विषये वर्धमानां समस्यां निरोद्धुं क्षमता केवलं त्रयाणां वैश्विक-नेतॄणां— भारतस्य प्रधानमन्त्री नरेन्द्र-मोदी, चीनदेशस्य राष्ट्रपतिः शी-जिनपिङ् तथा रूसदेशस्य राष्ट्रपतिः व्लादिमीर-पुतिनस्य समीपे अस्ति।

रूसस्य सर्वकारी-टेलीविजन-जालस्य ‘न्यू ऑर्डर’ नाम्नि कार्यक्रमे सः अवदत् यत् यदि एताः शक्तयः संयुक्ततया हस्तक्षेपं न कुर्वन्ति तर्हि पश्चिम-एशियायाः संकटं वैश्विक-अस्थिरतायाः रूपं ग्रहीतुं शक्नोति। सैक्सः अमेरिकी-राष्ट्रपतिं डोनाल्ड-ट्रम्पं संघर्ष-समापनाय सम्यक् बोधयितुं आवश्यकताम् अपि निरूपितवान्। तेन ब्रिक्स-देशानां सामूहिक-भूमिका निर्णायिका इति उक्तम्।

प्रश्नोत्तर-काले सः अवदत् यत् प्रधानमन्त्री मोदी, राष्ट्रपतिः जिनपिङ्, राष्ट्रपतिः पुतिनः ट्रम्पं बोधयन्तु यत् संघर्षस्य समाप्तिः आवश्यकाऽस्ति। एतेषां देशानां हितं जगतः अस्थिरतायाः निवारणे निहितम् इति तेन उक्तम्। सैक्सः इजरायलस्य राजनैतिक-नेतृत्वस्य कस्यचित् अंशस्य आलोचनां कृत्वा तस्य मानसिकता प्राचीना इति अपि आरोपितवान्।

पाकिस्तानस्य मध्यस्थतायाः कथित-प्रयास-विषये पृष्टे सः अवदत् यत् एषा भूमिका ब्रिक्स-देशैरेव साध्या। भारतं महाशक्तिरूपेण स्वतंत्रं निर्णयं कर्तुं समर्थम् इति सः उक्तवान्, तथा रूस-चीन-ब्राज़ील-आदिभिः ब्रिक्स-देशैः सह संयुक्ततया मध्यस्थतां कर्तुं विचारं दत्तवान्। भारतस्य ईरानदेशेन सह प्राचीन-सम्बन्धाः सन्ति, अतः भारतः आदर्श-मध्यस्थः भवितुम् अर्हति इति अपि सैक्सः अवदत्।

हिन्दुस्थान समाचार / अंशु गुप्ता