Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 अप्रैलमासः (हि.स.)।
भारतीय जनतादलस्य (भाजपा) राष्ट्रियोऽध्यक्षो नितिन नवीनः दलस्य सप्तचत्वारिंशत्तम स्थापना दिवसस्य अवसरः मुख्यालये ध्वजारोहणं कृतवान्। सः डॉ. श्यामा प्रसाद मुखर्जी तथा पण्डित दीनदयाल उपाध्यायं प्रति नमन् अकरोत्। अस्मिन् अवसरः सः उक्तवान् यत् राजनीति अस्माकं कृते केवलं सत्तालाभस्य साधनं न, अपितु राष्ट्रनीतेः मार्गः अस्ति। अस्माकं यात्रा सुगमा न आसीत्। अस्मिन् काले दलस्य अनेकाः वरिष्ठाः नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।
ध्वजारोहणेन कार्यक्रमस्य आरम्भं कृत्वा दलस्य राष्ट्रीय अध्यक्षः नितिन नवीनः डॉ. श्यामा प्रसाद मुखर्जी, पण्डित दीनदयाल उपाध्याय सहितान् अनेकान् पूर्वाध्यक्षान् नेतॄन् च स्मृतवान् तथा तेषां उपलब्धयः अपि उल्लेखितवान्। कार्यकर्तॄन् सम्बोधयन् सः संगठनस्य अधिकं सुदृढीकरणाय तथा आगामि निर्वाचनानां कृते सज्जीकरणाय आह्वानं कृतवान्।
भाजपाया राष्ट्रियः अध्यक्षः नितिनः राष्ट्रप्रथमस्य विचारधारां आत्मसात् कृत्वा दलं संगठनं च सशक्तीकुर्वन्तः कोटिशः समर्पितकार्यकर्तॄन् प्रेरितवान्। सः उक्तवान् यत् राजनीति अस्माकं कृते सत्तायाः साधनं न, अपितु राष्ट्रनीतेः मार्गः अस्ति। अस्माकं यात्रा सरल न आसीत्। सहस्रशः कार्यकर्तारः यातनाः अनुभूय बलिदानं कृत्वा अस्मान् अस्मिन् स्थितौ स्थापितवन्तः। बंगाल, केरलम्, जम्मू कश्मीरादिषु प्रदेशेषु अपि अनेके कार्यकर्तारः बलिदानं दत्तवन्तः। अद्य तेषां प्रति नमः करोमि।
सः अवदत् यत् राष्ट्रप्रथमस्य विचारधारया वयं निरन्तरं अग्रे गतवन्तः। अद्य भाजपा चतुर्दशकोटि सदस्यैः सह विश्वस्य महत्तमा दलः अस्ति। एतत् केवलं संख्या न, अपितु चतुर्दशशतकोटि देशवासिनां दृढविश्वासस्य प्रतीकः अस्ति। अस्माभिः पथप्रदर्शकान् स्मृत्वा प्रधानमंत्री नरेन्द्र मोदीस्य मार्गदर्शनेन राष्ट्रं विकसितराष्ट्रं कर्तुं स्वयम् समर्पणीयम्। दलं नूतनशिखराणि प्रति नेतव्यम्।
सः उक्तवान् यत् अद्य सर्वे संकल्पं कुर्वन्तु यत् सर्वाः पराजिताः आसन्दाः विजयेषु परिवर्तनीयाः। एतेन संकल्पेन वयं दलं नूतनशिखराणि प्रति नयेम।
---------------
हिन्दुस्थान समाचार