Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०६ अप्रैलमासः (हि.स.)। भाजपा अद्य सोमवासरे स्वस्य स्थापना-दिवसम् आचरति। ६ अप्रैलमासे १९८० तमे पक्षस्य स्थापना अभवत्। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः तथा प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः सर्वेभ्यः कार्यकर्तृभ्यः देशवासिभ्यश्च शुभकामनाः दत्तवन्तौ।
मुख्यमन्त्री डॉ.यादवः सामाजिक-माध्यमे एक्स-इत्यत्र स्वस्य शुभकामना-सन्देशे उक्तवान्— “सेवा, सुशासनं तथा राष्ट्रीय-पुनर्निर्माणाय समर्पितस्य भारतीयजनता-पक्षस्य स्थापना-दिवसावसरे सर्वेभ्यः कार्यकर्तृभ्यः हार्दिक्यः शुभकामनाः। ‘सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास’ इति मन्त्रं आत्मसात् कृत्वा वयं सर्वे अन्त्योदयस्य आत्मनिर्भर-भारतस्य च पावन-लक्ष्य-प्राप्तये कर्तव्य-पथे सततम् अग्रे गमिष्यामः।”
भाजपा-प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः अपि शुभकामनाः दत्त्वा स्वसन्देशे उक्तवान्— “राष्ट्रं प्रथमम् तथा अन्त्योदय-भावेन उद्दीप्तस्य विश्वस्य बृहत्तमस्य राजनैतिक-सङ्घटनस्य भाजपा-पक्षस्य ४७तम-स्थापना-दिवसावसरे समस्त-कार्यकर्तृभ्यः हार्दिक्यः शुभकामनाः ददामि। भाजपा केवलं राजनैतिक-दलम् नास्ति, अपि तु राष्ट्र-सर्वोपरि-मार्गे चलितुं विकास-सुशासन-भावनया ओतप्रोतः संस्कारः अस्ति। श्रद्धेयः डॉ.श्यामा-प्रसाद-मुखर्जी, पण्डित-दीनदयाल-उपाध्यायः तथा अन्येषां महतां पुण्य-विचाराणां आलोके, यशस्विनः प्रधानमन्त्रिणः श्री-नरेन्द्रमोदिनः तथा राष्ट्रीय-अध्यक्षस्य नितिन-नबीनस्य नेतृत्वे अन्त्योदय-सेवा-सङ्कल्पस्य पूर्तये विकसित-भारत-निर्माणाय वयं सर्वे प्रतिबद्धाः स्मः।”
हिन्दुस्थान समाचार / अंशु गुप्ता