Enter your Email Address to subscribe to our newsletters


देशस्य 10 प्रमुख नदीनां नाम्ना भविष्यति योजनायाः 1० टाउनशिप्स इत्येषां नामकरणम्
आगरा , 07 अप्रैलमासः (हि.स.)।मंगलवासरे योगी आदित्यनाथ आग्रानगरे नगरीयविस्तारीकरणस्य नवनगर-प्रोत्साहनयोजनायाः अन्तर्गतं आगरा विकास प्राधिकरण द्वारा प्रदेशे अद्यपर्यन्तं महत्तमा ‘ग्रेटर आगरा योजना’ इत्यस्याः शिलान्यासं करिष्यति।
अद्य मुख्यमन्त्री वृंदावन स्थितात् पवनहंस-उदग्रविमानस्थानात् उदग्रेण विमानेन आगरा नगरं गमिष्यति, यत्र एत्मादपुरक्षेत्रे कुबेरपुरस्थिते रायपुर-रहनकलां स्थले निर्मिते हेलिपैडे अवतीर्य आधुनिकसुविधायुक्तानां दश-टाउनशिप-योजनानां भूमिपूजनं शिलान्यासं च करिष्यति। तदतिरिक्तं जनपदस्य ३२४ विभिन्नपरियोजनानां शिलान्यास-लोकार्पणकार्यं अपि तेन क्रियते।
मुख्यमन्त्री अपराह्णे लखनऊतः विमानद्वारा आग्रायाः खेरिया-विमानस्थलं प्राप्य ततो हेलिकॉप्टरद्वारा वृन्दावनं गमिष्यति। तत्र जगद्गुरु मलूकदास-जयन्ती-कार्यक्रमे सहभागित्वा सायं ४:३० वादने शिलान्यासस्थलं रायपुर-रहनकलां प्रति पुनः आगमिष्यति, यत्र सः जनसभां सम्बोधयिष्यति तथा टाउनशिप-नमूनां निरीक्षणं करिष्यति।
अस्याः योजनायाः अन्तर्गतं ५१४२ कोटि रूप्यकाणां व्ययेण ४४९.६५ हेक्टेयर क्षेत्रे दश-टाउनशिपानां निर्माणं भविष्यति। एतेषां नामानि देशस्य दश प्रमुखनदीनां नाम्ना कृतानि सन्ति—गंगापुरम्, नर्मदापुरम्, गोमतीपुरम्, यमुनापुरम्, कृष्णापुरम्, सिन्धुपुरम्, बेतवापुरम्, महानदीपुरम्, गोदावरिपुरम्, कावेरीपुरम् इति। एतेषु ४७१२ भूखण्डाः निर्मास्यन्ते, येषु ४३९१ आवासीयाः, ४० समूहगृहाः, १६० मिश्रिताः, १२१ अनावासीयाश्च सन्ति। अस्य योजनाया फलतः प्रायः १.५ लक्षजनानां कृते आधुनिकसुविधायुक्ता निवासव्यवस्था सुलभा भविष्यति।
एडीए उपाध्यक्षः एम् अरुणमौलिः उक्तवान् यत् अद्यापि भूमिमूल्यनिर्धारणं न कृतम्, किन्तु आगामिषु दिनेषु प्राधिकरणस्य सभायां तत् निश्चितं भविष्यति, अनन्तरं प्रायः एकमासात् पश्चात् भूखण्डानां आरक्षणप्रक्रिया आरभ्यते।
एतस्य शिलान्यासकार्यक्रमस्य सह मुख्यमन्त्री १३२४ कोटि रूप्यकाणां अधिकमूल्ययुक्तानां ३२४ परियोजनानाम्अपि लोकार्पणं करिष्यति। अस्मिन् अवसरि केन्द्र-राज्यमन्त्रिणः, सांसदाः, विधायकाः अन्ये च प्रमुखाः नेतारः उपस्थिताः भविष्यन्ति।
सुरक्षाव्यवस्थायां अपि विशेषव्यवस्था कृता अस्ति। एत्मादपुरक्षेत्रे पर्याप्तसंख्यायां पुलिसबलं नियुक्तम्, सभास्थले, पण्डाले, मीडिया-गैलरी, वीआईपी-वाहनस्थापन इत्यादिषु दृढसुरक्षा व्यवस्था भविष्यति। यद्यपि मुख्यमन्त्री हेलिकॉप्टरद्वारा आगमिष्यति, तथापि वैकल्पिकमार्गेषु अपि पुलिसव्यवस्था सुसज्जा कृता अस्ति।
---------------
हिन्दुस्थान समाचार