असमनिर्वाचनम् : प्रधानमंत्रिणो नरेन्द्र मोदिनो नेतृत्वे शांतिनिर्वर्तनात् परं विकासपथि अग्रसर असम: - अमित शाहः
हैलाकांदी (असमः), 07 अप्रैलमासः (हि.स.)। आसन्नस्य असमविधानसभानिर्वाचनस्य सन्दर्भे अन्तिमप्रचारचरणे बराकघाटीं प्राप्तः केन्द्रीयगृहमन्त्री अमित शाहोऽवदत् यत् नरेन्द्र मोदी नेतृत्वे असमराज्ये पुनः शान्तिः प्रत्यागता अस्ति तथा राज्यं अधुना तीव्रगत्या
असम की बराक घाटी में विधानसभा चुनाव प्रचार के अंतिम दिन चुनावी सभा को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह।


हैलाकांदी (असमः), 07 अप्रैलमासः (हि.स.)। आसन्नस्य असमविधानसभानिर्वाचनस्य सन्दर्भे अन्तिमप्रचारचरणे बराकघाटीं प्राप्तः केन्द्रीयगृहमन्त्री अमित शाहोऽवदत् यत् नरेन्द्र मोदी नेतृत्वे असमराज्ये पुनः शान्तिः प्रत्यागता अस्ति तथा राज्यं अधुना तीव्रगत्या विकासमार्गे अग्रे सरति।

मङ्गलवासरे बराकघाट्याः त्रिषु जनपदेषु—श्रीभूमि, हैलाकांडी, सिलचर—आयोजितासु निर्वाचनसभासु अमितशाहः भाजपापक्षस्य अभ्यर्थिनां समर्थनार्थं प्रचारं कृतवान्। सः श्रीभूमिजिले पथारकांडीस्थले कृष्णेंदु पालस्य समर्थनार्थं, हैलाकाण्डीजिले डॉ. मिलन दास इत्यस्य समर्थनार्थं सभायां सहभागी अभवत्। अनन्तरं सः सिलचरनगरे डॉ. राजदीप रॉय तथा उदारबन्दस्थानस्य अभ्यर्थिनः राजदीप गोवाला पक्षे जनसभाः सम्बोधितवान्।

जनसभासु भाषमाणः गृहमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे भारतं कस्यापि प्रकारेण हानिं न प्राप्स्यति, तथा भाजपासरकारस्य काले राज्ये विकासकार्याणि नवगत्या प्रवर्तितानि। तेन उक्तं यत् असमराज्यं देशस्य अन्येषां विकसितराज्यानां सदृशं अग्रे नीयते, आगामिषु पञ्चवर्षेषु च तस्य नूतनशिखरप्राप्तिः लक्ष्यीकृता।

सः अपि अवदत् यत् भाजपासर्वकारेण भूमिपट्टवितरणं यथा महत्त्वपूर्णं कार्यं कृतम्, तथा श्रीभूमौ वैद्यकीयमहाविद्यालयस्य निर्माणं कृतम्। भविष्ये अपि राज्यस्य समग्रविकासार्थं अनेकाः योजनाः सिद्धाः सन्ति।

अमितशाहः सिलचरनगरस्य विकासे विशेषं बलं दत्त्वा उक्तवान् यत् गुवाहाटीनगरस्य दूरीं दृष्ट्वा सिलचरम् एव प्रमुखकेन्द्ररूपेण विकसितं करिष्यते, येन जनाः स्वकार्याणि कर्तुं गुवाहाटीं प्रति गन्तुं न आवश्यकं भवेत्। अतिरिक्ततया कृषकाणां कृते अपि विविधाः सुविधाः योजनाश्च प्रवर्तिष्यन्ति।----------------

हिन्दुस्थान समाचार