खरगेन असम-प्रदेशस्य जनान् गारंटी-इति स्मारिता, उक्तवान् – राज्यस्य सर्वेभ्यः वर्गेभ्यः लाभः प्राप्स्यते
नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। कांग्रेस-पक्षस्य अध्यक्षः मल्लिकार्जुन-खरगे असम-प्रदेशस्य जनान् पक्षस्य घोषणापत्रे प्रदत्तानां गारंटी-प्रतिज्ञानां स्मरणं कारितवान्। तेन उक्तं यत् एताभ्यः कृषकाः, युवानः, महिलाः, लघु-व्यवसायिनः तथा च चाय-उद्यान-श्रम
काँग्रेस अध्यक्ष मल्लिकार्जुन खरगे


नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। कांग्रेस-पक्षस्य अध्यक्षः मल्लिकार्जुन-खरगे असम-प्रदेशस्य जनान् पक्षस्य घोषणापत्रे प्रदत्तानां गारंटी-प्रतिज्ञानां स्मरणं कारितवान्। तेन उक्तं यत् एताभ्यः कृषकाः, युवानः, महिलाः, लघु-व्यवसायिनः तथा च चाय-उद्यान-श्रमिकाः इत्यादिभिः सह सर्वे वर्गाः लाभं प्राप्स्यन्ति।खरगे एक्स-माध्यमे स्वस्य ‘५-प्रतिश्रुति’-अभियानं सहभागीकृत्य उक्तवान् यत् कांग्रेस-पक्षः असम-प्रदेशस्य जनान् न्यायं शिथिलतां च दातुं दृढ-पदानि स्वीकरिष्यति। जुबिन-गर्गाय शत-दिवस-मध्ये न्यायः दास्यते। तथा च महिलानां धनागारेषु निःशर्तं नगद-हस्तान्तरणं क्रियते, व्यवसायस्य आरम्भाय विस्ताराय वा ताभ्यः ५०-सहस्र-रूप्यक-सहायता अपि प्रदास्यते।

कांग्रेस-अध्यक्षेन घोषितं यत् प्रत्येकं परिवारं २५-लक्ष-रूप्यक-पर्यन्तं निःशुल्क-उपचारं प्राप्स्यति। असम-प्रदेशस्य १०-लक्ष-भूमिपुत्रेभ्यः स्थायी-भूमि-पट्टाः दास्यन्ते, वरिष्ठ-नागरिकेभ्यः च प्रतिमासं १,२५०-रूप्यक-पेन्शन प्रदास्यते। खरगेन उक्तं यत् एताः गारंटी-प्रतिज्ञाः राज्यस्य सामाजिक-आर्थिक-संरचनां सुदृढीकर्तुं सन्ति तथा सर्वेभ्यः वर्गेभ्यः प्रत्यक्षं लाभं प्रदास्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता