Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 07 अप्रैलमासः (हि.स.)।
केन्द्रसरकारेण दूरदर्शनसमाचारपटलानां टेलिविजनरेटिङ्गपॉइण्ट्स (टीआरपी) इत्यस्य चतुर्सप्ताहपर्यन्तं पुनः स्थगनस्य निर्णयः कृतः। अयं निर्णयः संकटकाले प्रसारितानां अफवाहानां तथा अतिरञ्जितसमाचाराणां नियन्त्रणार्थं कृतः।
सूचनाप्रसारणमन्त्रालयेन ब्रॉडकास्ट् ऑडियन्स् रिसर्च् काउन्सिल् (बीएआरसी) इत्यस्मै निर्देशः प्रदत्तः, यतः इजराइल-ईरान् संघर्षकालीनाः मिथ्या तथा काल्पनिकसमाचाराः केषाञ्चन चैनलानां माध्यमेन प्रसारिताः आसन्, येन जनमानसे भयस्य प्रसारः अभवत्।
मन्त्रालयेन आदेशे उक्तं यत् केचन समाचारचैनलाः अनावश्यकरीत्या युद्धस्थितेः अतिसंवेदनशीलतया तथा सनसनीखेजरूपेण प्रसारणं कुर्वन्ति। एतादृशी सामग्री सामान्यजनानां मध्ये भ्रमं भयञ्च उत्पादयितुं शक्नोति। विशेषतः प्रभावितक्षेत्रेषु वसतां जनानां परिजनेषु चिन्ता असुरक्षाभावश्च वर्धितुं शक्नोति।
एतत् सर्वं दृष्ट्वा सर्वकारेण चतुर्सप्ताहपर्यन्तं टीवीसमाचारपटलानां टीआरपी-प्रतिवेदनस्य स्थगनं कृतम्। अस्मिन् काले पटलानां प्रदर्शनस्य मूल्यांकनं सामान्यप्रक्रियया न भविष्यति।
उल्लेखनीयम् अस्ति यत् पश्चिमएशियासंकटस्य परिप्रेक्ष्ये सरकारेण मार्चमासस्य षष्ठे दिने एव समाचारपटलानां टीआरपी चतुर्सप्ताहपर्यन्तं स्थगयितुं आदेशः दत्तः आसीत्।
---------------
हिन्दुस्थान समाचार