Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, ०७ अप्रैलमासः (हि.स.)। प्रसिद्धः ओड़िया-चलचित्र-निर्माता, उद्योगपति:, समाजसेवी च रवि-स्वाईं मङ्गलवासरे प्रातःकाले भुवनेश्वरस्थे कस्यचित् वैयक्तिक-चिकित्सालये उपचारकाले निधनं प्राप्नोत्। सः सप्तचत्वारिंशत् वर्षे आसीत्।
तस्य परिवार-संबद्धसूत्रेण उक्तं यत् सः हृदय-रोगेण पीडितः आसीत् तथा चिकित्सालये तस्य उपचारः प्रवर्तमानः आसीत्।
रवि-स्वाईं-निधनात् ओड़िया-चलचित्र-उद्योगे महती हानि: अभवत्। तेन स्वयम् अनेकानि लोकप्रियानि ओड़िया-चलचित्राणि निर्मितानि, यथा “जोर जार मुलक तार,” “की हेब शुआ पोषिले,” “पंजुरी भीतरे सारी,” च “उडंडी सीता” इत्यादीनि। एतेषां चलचित्राणां सम्पूर्णे ओडिशाराज्ये दर्शकैः महती प्रशंसा कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता