Enter your Email Address to subscribe to our newsletters

भागलपुरम्, ०७ अप्रैलमासः (हि.स.)। विश्व-स्वास्थ्य-दिवसस्य अवसरम् उपलक्ष्य मङ्गलवासरे आनन्दराम-ढांढनियाँ-सरस्वती-विद्या-मन्दिरे भागलपुरे विशेषः स्वास्थ्य-परीक्षण-परामर्श-कार्यक्रमः आयोजितः।
अस्मिन् अवसरे नगरस्य प्रसिद्धैः चिकित्सकैः विद्यालयस्य भ्राता-भगिनीनां स्वास्थ्य-परीक्षणं कृतं तथा तेभ्य: स्वस्थ-जीवन-शैलीं अंगीकर्तुम् आवश्यकं मार्गदर्शनं प्रदत्तम्। कार्यक्रमस्य शुभारम्भः विद्यालयस्य प्रधानाचार्येण सुमन्त-कुमारः, राष्ट्रीय-स्वयंसेवक-संघस्य वरिष्ठ-कार्यकर्त्रा महादेवेन, उपस्थितैः चिकित्सकैः सह संयुक्तरूपेण दीप-प्रज्वलनेन कृतः।
तत्पश्चात् सर्वे चिकित्सकाः अंगवस्त्रैः पुष्पगुच्छैः च सम्मानिताः। कार्यक्रमस्य समये विद्यार्थिनः चिकित्सकैः सह स्व-स्वास्थ्यसम्बद्धानां विविध-समस्यानां विषये परामर्शं गृहीत्वा तेषां समाधानोपायान् अवगतम्। अस्मिन् अवसरे डॉ.धनञ्जय-चौधरी-निर्देशनान्तर्गतं बालिकानां टीकाकरणम् अपि कृतम्।
महिला-चिकित्सिका डॉ.रोमा-यादव छात्राभ्यः स्वास्थ्यसम्बद्ध-समस्यानां तेषां समाधानानां च विषये विस्तरेण सूचनां प्रदत्तवती। तथैव डॉ.विकास-पाण्डेय: नेत्र-सम्बद्ध-समस्यानां निवारण-उपायान् अवदत् तथा डॉ.सुमन नेत्र-नासिका-कर्ण-सम्बद्ध-रोगानां तेषां उपचाराणां च विषये प्रकाशं कृतवान्। अस्मिन् कार्यक्रमे डॉ.ऋषुः, डॉ.अभिषेक-रञ्जनः, डॉ.मणि-शङ्करः, डॉ.नवनीतः, डॉ.प्रिया, डॉ.पलक-लोहानी, डॉ.हर्ष-गोयलः, डॉ.अनामिका-कारणः, डॉ.अमित-रञ्जनः, डॉ. सुष्मिता-कुमारी, डॉ.धीरज-कुमारः, स्टाफ-नर्स श्रीमती साक्षी-भारती इत्यादयः अनेके चिकित्सकाः गरिमामयीं उपस्थितिं दत्तवन्तः। अस्मिन् एव अवसरे बिहार-सर्वकारस्य ‘मुख्यमन्त्री-बालिका-कैंसर-प्रतिरक्षण-योजना’ अन्तर्गतं निःशुल्क-एचपीवी-टीकाकरणस्य द्वितीयः डोज-इत्यपि अपि प्रदत्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता