गृहमन्त्रिणा सारस्वत-सहकारी-धनागाराय तथा अमूल-संस्थायै च वार्षिक-परिव्ययस्य एक-लक्ष-कोटि-रूप्यकाणां सीमा-अतिक्रमणस्य उपलक्ष्ये अभिनन्दनं प्रदत्तम्
नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। केन्द्रीय-गृहमन्त्री तथा सहकारिता-मन्त्री अमित-शाह-महाशयेन सारस्वत-सहकारी-धनागाराय तथा अमूल-संस्थायै च २०२५–२६ वर्षे एक-लक्ष-कोटि-रूप्यकाणां वार्षिक-परिव्यय-परिमाणम् अतिक्रम्य प्राप्ते सति अभिनन्दनं प्रदत्तम्। सहका
केंद्रीय गृह और सहकारिता मंत्री अमित शाह (फाइल फोटो)।


नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। केन्द्रीय-गृहमन्त्री तथा सहकारिता-मन्त्री अमित-शाह-महाशयेन सारस्वत-सहकारी-धनागाराय तथा अमूल-संस्थायै च २०२५–२६ वर्षे एक-लक्ष-कोटि-रूप्यकाणां वार्षिक-परिव्यय-परिमाणम् अतिक्रम्य प्राप्ते सति अभिनन्दनं प्रदत्तम्।

सहकारिता-मन्त्रालयेन मङ्गलवासरे प्रदत्ते विज्ञप्तौ उक्तं यत् गृहमन्त्रिणा अमित-शाह-महाशयेन उक्तम्—सारस्वत-सहकारी-धनागाराय तथा अमूल-संस्थायै च २०२५–२६ वर्षे एक-लक्ष-कोटि-रूप्यकाणां वार्षिक-परिव्यय-सीमाम् अतिक्रम्य प्राप्तिः सहकारितायाः शक्तेः तथा तस्याः अपार-सम्भावनानां जीवंतम् उदाहरणम् अस्ति।

गृहमन्त्री अवदत् यत् एषा उपलब्धिः न केवलं सहकारी-धनागार-क्षेत्रस्य तथा दुग्ध-उद्योगस्य कृते ऐतिहासिकी अस्ति, अपि तु अस्याः माध्यमेन आत्मनिर्भर-भारत-निर्माण-यात्रायाः अपि नूतना ऊर्जा प्राप्ता भविष्यति। तेन अस्याः गौरवपूर्ण-उपलब्धेः कृते अमूल-संस्थायाः तथा सारस्वत-सहकारी-धनागारेण सह सम्बद्धानां सर्वेषां कर्मयोगिनां अभिनन्दनं कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता