प्रधानमंत्री वियतनामस्य नूतनो राष्ट्रपतिस्तो लामाय अददात् वर्धापनानि
नवदिल्ली, 07 अप्रैलमासः (हि.स.)। भारतीयप्रधानमन्त्री नरेन्द्र मोदी मङ्गलवासरे वियतनामदेशस्य राष्ट्रपतिपदे निर्वाचिताय तो लाम हार्दिकाः शुभाशंसाः प्रदत्तवान्। प्रधानमन्त्री विश्वासं व्यक्तवान् यत् नूतनराष्ट्रपतिनः नेतृत्वे भारतवियतनामयोः मध्ये मै
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, 07 अप्रैलमासः (हि.स.)।

भारतीयप्रधानमन्त्री नरेन्द्र मोदी मङ्गलवासरे वियतनामदेशस्य राष्ट्रपतिपदे निर्वाचिताय तो लाम हार्दिकाः शुभाशंसाः प्रदत्तवान्।

प्रधानमन्त्री विश्वासं व्यक्तवान् यत् नूतनराष्ट्रपतिनः नेतृत्वे भारतवियतनामयोः मध्ये मैत्री अधिकं सुदृढा भविष्यति।

मोदी सामाजिकमाध्यममञ्चे “एक्स” इति लिखितवान् यत् सः राष्ट्रपतिना तो लाम सह मिलित्वा उभयदेशयोः तथा क्षेत्रस्य जनानां प्रगतिसमृद्ध्योः कृते कार्यं कर्तुं आशान्वितः अस्ति।

तेन उक्तम् यत् भारतवियतनामयोः सम्बन्धाः भविष्ये अधिकं सुदृढाः भविष्यन्ति तथा सहयोगस्य नूतनाः आयामाः स्थापिताः भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् वियतनामस्य राष्ट्रियसभायाः षोडशे सत्रे तो लाम २०२६-२०३१ कार्यकालाय सर्वसम्मत्याः राष्ट्रपतिरूपेण निर्वाचितः। एकोनसप्ततिवर्षीयः (६९ वर्षीयः) सः पञ्चवर्षपर्यन्तं अस्मिन् पदे स्थित्वा कार्यं करिष्यति। निर्वाचनानन्तरं सः संविधानानुसारं मङ्गलवासरे शपथं गृहीत्वा राष्ट्रस्य, जनस्य तथा संविधानस्य प्रति पूर्णनिष्ठया कार्यं कर्तुं संकल्पं कृतवान्।

-----------

हिन्दुस्थान समाचार