Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ०७ अप्रैलमासः (हि.स.)। छत्तीसगढ-राज्यस्य ग्रामीण-क्षेत्रेषु निवसमानानान अनुसूचित-जाति-जनजाति-वर्गयोः प्रतिभाशालिनां विद्यार्थिनां कृते गुणवत्तायुक्त-शिक्षां प्रदातुं राज्य-शासनस्य महत्त्वपूर्ण: प्रयत्न: क्रियते। आदिम-जाति-अनुसूचित-जाति-विकास-विभागेन शैक्षणिक-सत्रे २०२६-२७ ‘मुख्यमन्त्री-अनुसूचित-जाति-जनजाति-विद्यार्थी-उत्कर्ष-योजना’ (पूर्वं ‘जवाहर-उत्कर्ष-योजना’) इत्यस्य क्रियान्वयनार्थं प्रदेशस्य प्रतिष्ठितेभ्यः निजी-आवासीय-विद्यालयेभ्यः इम्पैनलमेंट-निमित्तं प्रस्तावाः आमन्त्रिताः।अस्या: योजनाया: अन्तर्गतं छत्तीसगढे स्थितेषु सीबीएसई अथवा आईसीएसई संघेन मान्यताप्राप्तेषु उत्कृष्टेषु वैयक्तिक-विद्यालयेषु चयनं क्रियते, यत्र शिक्षण-संस्था छात्रावासश्च एकस्मिन् एव परिसरे सञ्चालितौ भवतः।
विभागेन अस्मिन् वर्षे षष्ठ-कक्षायाः प्रवेशार्थं २०० विद्यार्थिनः लक्ष्यीकृताः, यत्र अनुसूचित-जनजाति-वर्गस्य १३० तथा अनुसूचित-जाति-वर्गस्य ७० विद्यार्थिनः चयनित-संस्थासु प्रवेशं प्राप्य द्वादश-कक्षापर्यन्तं निःशुल्क-आवासीय-शिक्षां प्राप्स्यन्ति। चयनित-विद्यालयेभ्यः विभागेन निर्धारित-शुल्कस्य प्रतिपूर्तिः अपि क्रियते।संस्थानां चयनार्थं कठोराः मानदण्डाः निर्धारिताः सन्ति—यथा विद्यालयस्य न्यूनातिन्यूनं पञ्च-वर्ष-प्राचीनता, स्वकीयं सुसज्जितं भवनम्, डिजिटल-कक्षाः, क्रीडाङ्गणम्, पृथक् बालक-बालिका-छात्रावासौ च अनिवार्यौ। अतिरिक्तरूपेण गत-त्रय-वर्षेषु संघ-परीक्षाफलस्य ८० प्रतिशताधिकं सफलतादरः, विशेष-कोचिङ्ग-व्यवस्था तथा गुणवत्तायुक्त-भोजन-व्यवस्था इत्यादिनां मानदण्डानां आधारेण १०० अङ्कानां मापनपद्धत्याः विद्यालयानां श्रेणीकरणं भविष्यति।
इच्छुकाः संस्थाः १००० रूप्यकाणां आवेदन-शुल्केन सह ५ लक्ष-रूप्यकाणां अमानत-राशिं समर्प्य स्व-प्रस्तावं सम्बन्धित-जनपदस्य सहायक-आयुक्तस्य, आदिवासी-विकास-विभागस्य कार्यालये निवेदयितुं शक्नुवन्ति। आवेदन-प्रस्तुत्याः अन्तिम-तिथिः २३ अप्रैल २०२६ सायं ५ वादनपर्यन्तं निर्धारिता अस्ति। संस्थाः स्व-आवेदनं पञ्जीकृत-डाकमाध्यमेन, ई-मेल-द्वारा वा स्वयम् उपस्थाप्य समर्पयितुं शक्नुवन्ति। विस्तृत-निर्देशाः प्रारूपं च विभागस्य आधिकारिक-जालस्थले (www.tribal.cg.gov.in) उपलभ्यन्ते।
एषा योजना न केवलं विद्यार्थिनः स्पर्धाक्षमान् करिष्यति, अपितु तेषां व्यक्तित्व-विकासे सहायकत्वेन नूतन-चिन्तन-सहितं उत्तम-जीविकाचयनस्य अवसरान् अपि प्रदास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता