Enter your Email Address to subscribe to our newsletters


पूर्वी-सिंहभूमः, ०७ अप्रैलमासः (हि.स.)। रेल-नागरिक-सुरक्षा-विभागेन मङ्गलवासरे इलेक्ट्रिक-लोको-पायलट-प्रशिक्षण-केन्द्रे प्रशिक्षण-कार्यक्रमः आयोजितः, यस्मिन् प्रशिक्षणार्थिनः लोको-पायलट-इत्यादय: अग्नि-दुर्घटनासु त्वचा-दाह-प्रकाराः, तेषां परिचयः, प्राथमिक-चिकित्सा तथा क्षतिपूर्ति-मूल्यांकन-सम्बद्धा महत्त्वपूर्णा सूचना प्रदत्ता।
कार्यक्रमस्य आरम्भे निरीक्षकः सन्तोष-कुमारः लोको-पायलट-इत्यादीन् स्वकर्तव्येषु राष्ट्रीय-भावनया कार्यं कर्तुं प्रेरितवान् तथा आपत्कालीन-स्थितिषु तत्परतया सेवां दातुं शपथं दत्तवान्।
ततः अनन्तरं तेन अग्निदाहस्य विभिन्नाः अवस्थाः विस्तरेण वर्णिताः— प्रथम-स्तरे त्वचा रक्तवर्णा भवति, द्वितीय-स्तरे ऊर्ध्व-अधःस्तरौ प्रभावितौ स्याताम् तथा फफोलकाः तीव्र-वेदनासहिताः भवन्ति। तृतीय-स्तरे त्वचायाः सर्वे स्तराः नष्टाः भवन्ति तथा नाड्यः अपि प्रभाविताः भवन्ति, चतुर्थ-स्तरे तु दाहः अस्थिपर्यन्तं प्राप्नोति, या अत्यन्त-गम्भीरा अवस्था मन्यते।
प्राथमिक-चिकित्सायाः विषये उक्तं यत् प्रथम-स्तर-दाहे प्रभावित-अङ्गं १०–१५ निमेषान् यावत् शीतले जले स्थापनीयम्। द्वितीय-स्तरे लघु-फफोलकेषु प्रतिजैविक-लेपं कृत्वा शुद्ध-पट्ट्या बन्धनीयम्। तृतीय-चतुर्थ-स्तरयोः दाहे तु संक्रमण-समस्या अधिका भवति, अतः रोगिणः शीघ्रं चिकित्सालयं नीयन्ताम्।
द्वितीय-सत्रे प्रदर्शनकर्ता शङ्कर-कुमार-प्रसादेन अग्निशमन-यन्त्राणाम् उपयोगः, तेषां संचालन-नियमाः सावधानानि च विस्तरेण प्रदर्शिताः।
अस्मिन् कार्यक्रमे प्रशिक्षण-केन्द्रस्य अनुदेशकाः तथा दक्षिण-पूर्व-रेल-चक्रधरपुर-खड्गपुर-राँची-आद्रा-मण्डलेभ्यः आगताः प्रायः द्विशतं लोको-पायलट-इत्यादय: सहभागितां कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता