Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 07 अप्रैलमासः (हि.स.)।
बस्तरक्षेत्रस्य सांसदः महेश कश्यप इत्यस्य निवासस्थाने ग्रामे कुम्हरावण्ड-झरनीगुडा इत्यत्र आयोजिते श्रीरामभक्तस्य श्रीहनुमानमन्दिरस्य प्राणप्रतिष्ठासमारेहे अद्य मङ्गलवासरे छत्तीसगढशासनस्य मन्त्री केदार कश्यप सहभागी अभवत्।
कार्यक्रमस्य प्रथमदिने मन्त्री केदारकश्यपः मण्डपाच्छादनं अभिषेकं च कृत्वा पवनपुत्रस्य हनुमान विधिवत् पूजार्चनां कृतवान् तथा प्रदेशवासिनां सुखसमृद्ध्यर्थं कश्यपकुलस्य च मंगलमयजीवनस्य कामनां कृतवान्।
अस्मिन् अवसरे तेन सांसदेन महेशकश्यपेन सह, कश्यपपरिवारस्य सदस्यैः तथा ग्रामवासिभिः सह आत्मीयं मिलनं कृत्वा तेषां कुशलक्षेमं पृष्टम्।
---------------
हिन्दुस्थान समाचार